________________
३६
रघुवंशमहाकाव्ये
समास:-तामरसानाम् अन्तरमिति तामरसान्तरम्, तद्वत् आभा यस्याः सा ताम्, तामरसान्तराभाम्, शोभना: दन्ताः यस्या सा तां सुदतीम् । अनुगताः आपः येषु ते अनूपास्तेषां राजा तस्य अनूपराजस्य ।
हिन्दी-कमल के मध्य के समान कान्तिवाली, बड़ी गुणवती, सुन्दर दाँतों वाली, और ब्रह्मा की उस सुन्दर मधुर रचना इन्दुमती को अनूपदेश के राजा के सामने खड़ी करके फिर सुनन्दा कहने लगी ॥ ३७॥
सङ्ग्रामनिविष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः । अनन्यसाधारण राजशब्दो बभूव योगी किल कार्तवीर्यः ॥ ३८॥
संजी०-संग्रामेति। संग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः । युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः । अष्टादशसु द्वीपेषु निखाताः स्थापिता यूपा येन स तथोक्तः । सर्वक्रतुयाजी सार्वभौमश्चति भावः । जरायुजादिसर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य स तथोक्तः। योगी ब्रह्मविद्विद्वानित्यर्थः । स किल भागवतो दत्तात्रेयाल्लब्धयोग इति प्रसिद्धः । कृतवीर्यस्यापत्यं पुमान्कार्तवीर्यो नाम राजा बभूव किलेति । अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसादलब्ध इति भारते दृश्यते ॥ ३८॥ __ अन्वयः-संग्रामनिविष्टसहस्रबाहुः, अष्टादशद्वीपनिखातयूपः, अनन्यसाधारणराजशब्दः योगी कार्तवीर्यः बभूव किल ।
व्याख्या-संग्रामेषु = युद्धेषु, निविष्टा: = प्रविष्टाः अनुभूता इत्यर्थः सहस्रम् सहस्रसंख्याकाः, बाहवः = भुजा: यस्य सः संग्रामनिविष्टसहस्रबाहुः अष्टादशसु द्वीपेषु = अन्तरीपेषु, निखाता: = स्थापिताः, यूपाः = विजयस्तम्भाः ये सः, अप्टादशद्वीपनिखातयूपः । अन्येषां साधारण इति, अन्यसाधारण:, अन्यसाधारणो न भवति सोऽनन्यसाधारणः, अनन्यसाधारणः = विशिष्ट: = अद्वितीयः राजेति शब्दो यस्य सः अनन्यसाधारणराजशब्दः सर्वप्राणिरजानादित्यर्थः, योगी= योगयुक्तः ब्रह्मज्ञ इत्यर्थः । कृतवीर्यस्य अपत्यं पुमानिति कार्तवीर्यः = कार्तवीर्यनामा राजा बभूव =जातः, किलेति प्रसिद्धौ।
समासः-संग्रामे निर्विष्टाः सहस्रं बाहवो यस्य स तथोक्तः । अष्टौ च दश इति अष्टादश अष्टादश च ते द्वीपाः इत्यष्टादशद्वीपाः, तेषु निखाता: यूपा : येन स: अष्टादशद्वीपनिखातयूपः । अन्येषां साधारणः अन्यसाधारणः अन्यसाधारण: न