________________
षष्ठः सर्गः
समासः-उत्तमं सौकुमार्यं यस्याः सा उत्तमसौकुमार्या, बन्धव एव पद्मानीति बन्धुपद्मानि, अभिद्योतितानि बन्धुपद्मानि येन सः, तस्मिन् अभिद्योतितबन्धुपद्मे, प्रतापेन संशोषिताः शत्रव एव पङ्का येन स तस्मिन् प्रतापसंशोषितशत्रुपङ्के ।
हिन्दी-अत्यन्त सुकुमार शरीरवाली उस इन्दुमती को , बन्धुजनों को प्रसन्न करने वाला तथा अपने तेज से शत्रुओं को नष्ट करने वाला वह उज्जयिनी का राजा उसी प्रकार पसन्द नहीं आया, जिस प्रकार रात में खिलनेवाला कुमुदिनी को कमल को खिलाने वाला और कीचड़ को सुखा देने वाला सूर्य नहीं भाता ।। ३६ ॥
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणरनूनाम् । विधाय सृष्टि ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥३७॥
संजी०–तामिति । सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्ति, कनकगौरीमित्यर्थः । गुणैरनूनाम् , अधिकामित्यर्थः । शोभना दन्ता यस्याः सा सुदती, 'वयसि दन्तस्य दतृ' इति दत्रादेशः 'उगितश्च' इति ङीप् । तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टि मधुरनिर्माणं स्त्रियमित्यर्थः। अनुगता आपो येषु तेऽनूपा नाम देशाः। 'ऋक्पूरब्धःपथामानः' इत्यप्प्रत्ययः समासान्तः, 'ऊदनोर्देशे' इत्यूदादेशः। तेषां राज्ञोऽनूप राजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ॥३७॥
अन्वयः-सुनन्दा तामरसान्तराभाम् गुणैः अनूनाम् सुवती ताम् विधातुः ललितां सृष्टिम् अनूपराजस्य अग्रतः विधाय भूयः जगाद । ___ व्याख्या-सुनन्दा = दौवारिकी, तामरसानां कमलानां, अन्तरं मध्यभागः उदरमित्यर्थः तद्वत् आभा=कान्तिः यस्याः सा ताम् तामरसान्तराभाम्=पद्मकान्ति कनकगौरीमित्यर्थः, गुणैः सौन्दर्यादिभिः, दयादाक्षिण्यादिभिश्च न नूना इति अनूना ताम् अनूनाम् = अधिकाम्, शोभनाः दन्ता: = दशनाः यस्याः, सा, ताम् सुदतीम् ताम् प्रसिद्धाम्, इन्दुमतीम्, विदधति लोकमिति विधाता तस्य विधातुः = ब्रह्मणः, ललिताम् = मधुराम, सृष्टिम् = सर्जनम् स्त्रीरूपाम्, अनुगताः आपः येषु ते अनूपा:= देशविशेषास्तेषां राजा = स्वामी तस्य अनूपराजस्य, अग्रत: विधाय = अग्रे कृत्वा, भूयः = पुनः जगाद = उवाच।