________________
रघुवंश महाकाव्ये
समास: - रम्भे इव ऊरू यस्याः सा तस्याः संबुद्धौ हे रम्भोरु ! पृथिव्या ईश्वरः पार्थिवस्तेन पार्थिवेन । सिप्रायाः तरंगाः सिप्रातरंगा : तेषामनिलस्तेन कम्पितास्तासु सिप्रातरंगानिलकम्पितासु, उद्यानानाम् परम्परास्तासु उद्यानपरम्परासु ।
३४
हिन्दी - केले के खम्बे के समान जाँघवाली ( चिकनी तथा ढलवाँ जाँघ ) इन्दुमती ! इस जवान राजा के साथ अवन्ति के उन उद्यानों में विहार करने की तुम्हारे मन की अभिलापा है क्या ? जिन्हें सिप्रा नदी की तरंगों के शीतल वायु ने सदा कम्पित किया है । अर्थात् जिन बगीचों में सिप्रा नदी का शीतल मन्द और सुरभित पवन सदा हरहराता रहता है ॥ ३५ ॥
तस्मिन्नभिद्योतितबन्धुपद्म प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सानोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥३६॥
संजी - तस्मिन्निति । उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती । अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन् । तस्मिन्नवन्तिनाथे कुमुद्वती । 'कुमुदनडवेतसेभ्यो मतुप्' इति मतुप्प्रत्ययः । भानुमत्यंशुमतीव भावं चित्तं न बबन्ध, न तत्रानुरागमकरोदित्यर्थः । बन्धूनां पद्मत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ।।३६।।
अन्वयः - उत्तमसौकुमार्या सा अभिद्योतितबन्धुप मे प्रतापसंशोषितशत्रुपङ्के तस्मिन् कुमुद्वती भानुमती इव भावं न बबन्ध |
उत्तमम् = उत्कृष्टम्
-
व्याख्या - सुकुमारस्य भावः कर्म वा सौकुमार्यम् सौकुमार्यम् शरीरमार्दवं यस्याः सा उत्तमसौकुमार्या, सा इन्दुमती, वन्धवः = बान्धवजनाः, एव पद्मानि = कमलानि इति बन्धुपद्मानि अभिद्योतितानि: विकचितानि, उल्लसितानि बन्धुपद्मानि येन सः तस्मिन् अभिद्योतितबन्धुपद्मे, प्रतापेन तेजसा, संशोषिताः = शुष्कतांनीताः, शत्रवः =अरयः एव पङ्काः = कर्दमाः येन तस्मिन् प्रतापसंशोषितशत्रुपङ्के, तस्मिन् = अवन्तिनाथे, कुमुदानि सन्ति अस्याः साकुमुद्वती = कुमुदिनी भानवः सन्त्यस्येति भानुमान् तस्मिन् भानुमति = अंशुमति सूर्ये इत्यर्थ:, इव = यथा, भावं = चित्तं न बबन्ध नहि तस्मिन्ननुरागं कृतवती ।
=
1