________________
षष्ठः सर्गः
३३
तस्य चन्द्रमौले: = ईश्वरस्य, अनतिदूरे = समीपे वसन् = निवसन्, तमिस्रस्य = तिमिरस्य, अन्धकारस्येत्यर्थः, पक्षः = कृष्णपक्षः, तस्मिन् तमिस्रपक्षेऽपि प्रियाभिः = स्वपत्नीभिः, सह = सार्धम्, ज्योत्स्ना = कौमुदी विद्यते येषु ते तान् ज्योत्स्नावतः, प्रदोषान् = रात्रीः, निर्विशति = अनुभवति किल ।
समासः - महाकालमेव निकेतनं यस्य सः, तस्य महाकालनिकेतनस्य, चन्द्रः मौलौ यस्य तस्य चन्द्रमौले:, तमिस्रस्य पक्षस्तस्मिन् तमिस्रपक्षे, ज्योत्स्ना विद्यते येषु ते ज्योत्स्नावन्तः, तान् ज्योत्स्नावतः ।
हिन्दी - यह उज्जयनी का राजा महाकालमन्दिर में रहने वाले और मस्तक पर चन्द्रमा को धारण करने वाले शिवजी के समीप ही रहता है । ( अर्थात् इसका महल महाकाल के पास में है ) इसीलिए कृष्ण पक्ष में भी यह अपनी रानियों के साथ चाँदनी रातों का आनन्द भोगता है । अर्थात् शिवजी के मस्तक पर लगे चाँद की चाँदनी से इसका महल सदा जगमगाता रहता है ||३४||
३
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते 1 सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ।। ३५ ।।
संजी० - अनेनेति । रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूस्तस्याः सम्बोधनम् । हे रम्भोरु ! ' ऊरूत्तरपदादीपम्ये' इत्यूङ्प्रत्ययः । नदीत्वा ध्रस्वः । यूनानेन पार्थिवेन सह । सिप्रा नाम तत्रत्या नदी, तस्यास्तरङ्गाणामनिलेन कम्पिता - सूद्यानानां परम्परासु पक्तिषु विहतु ते तव मनसो रुचिः कच्चित् । स्पृहास्ति किमित्यर्थः । ‘अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्' इत्यमरः ॥ ३५॥
अन्वयः - हे रम्भोरु यूना अनेन पार्थिवेन सह, सिप्रातरंगानिलकम्पितासु उद्यानपरम्परासु विहर्तुम् ते मनसः रुचिः कच्चित् ?
व्याख्या--रम्भे = कदलीस्तम्भौ इव ऊरू = जङ्घे यस्याः सा, तस्याः संबोधने हे रम्भोरु | यूना = तरुणेन, अनेन = पुरोवर्तिना पृथिव्या ईश्वरः पार्थिवः तेन पार्थिवेन = राज्ञा, सह=सार्धम्, सिप्रायाः = नद्याः, तरंगाः = ऊर्मयः तेषाम् अनिलः = पवनस्तेन, कम्पिताः= चालितास्तासु इति सिप्रातरंगानिलकम्पितासु, उद्यानानाम्= उपवनानाम्, परम्पराः= पङ्क्तयस्तासु उद्यानपरम्परासु, विहर्तुम् = विहारं कर्तुम्, ते =तव, मनसः = चित्तस्य, रुचिः = अभिलाषः कच्चित् = किम् अभिलाषोस्ति किमित्यर्थः ।