________________
३२
रघुवंशमहाकाव्ये ये शिखामणयश्चूडामणयस्तेषां प्रभाप्ररोहास्तमयं तेजोकुरनाशं कुर्वीत । नासीरैरेवास्य शत्रवः पराजीयन्त इति भावः ॥ ३३ ॥
अन्वयः-समनशक्तेः अस्य प्रयाणेषु अग्रेसरः वाजिभिः उत्थितानि रजांसि सामन्तशिखामणीनाम् प्रभारोहास्तमयम् कुर्वन्ति ।
व्याख्या--समग्राः = सम्पूर्णाः शक्तयः = प्रभावोत्साहमंत्रजा:, यस्य सः समग्रशक्तिस्तस्य समग्रशक्तेः, अस्य = अवन्तिनाथस्य, प्रयाणेषु = विजययात्रासु, अग्रे सरन्ति ते अग्रेसरास्तैः अग्रेसरैः = अग्रगामिभिः वाजिभिः = तुरंगमैः, उत्थितानि= उद्धृतानि रजांसि = रेणवः सामन्तानाम् = समन्ताद्भवानाम् राज्ञां शिखा : = चूड़ास्तासु मणयः = रत्नानि, इति ते तेषाम् सामन्तशिखामणीनाम्, प्रभा=कान्तिः, तस्याः प्ररोहाः = अंकुराः तेषाम्, अस्तमयं = नाशं कुर्वन्ति = विदधति।
समास:--समग्राः शक्त्यो यस्य स तस्य समग्रशक्तेः, अग्रे सरन्ति ते अग्रेसरास्तैः अग्रेसरैः, सामन्तानाम् शिखासु मणयस्तेषाम् सामन्तशिखामणीनाम् प्रभाया: प्ररोहास्तेषाम् अस्तमयः, तं प्रमाप्ररोहास्तमयम् ।
हिन्दी--त्रिविध शक्तिशाली यह राजा जब अपने शत्रुओं पर चढ़ाई करते हैं, तब सेना के आगे चलने वाले घोड़ों की टापों से उठी हुई धूली से शत्रु सामन्त राजाओं के मुकुट की मणियों की चमक नष्ट हो जाती है। अर्थात् इस राजा के घोड़े ही शत्रुओं को पराजित कर देते हैं ।। ३३ ।। असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । तमिस्रपक्षेऽपि सह प्रियाभिर्योत्स्नावतो निर्विशति प्रदोषान् ॥३४॥
संजी० --असाविति । असाववन्तिनाथः महाकालं नाम स्थानविशेषः । तदेव निकेतनं मुकुटस्थानं यस्य तस्य चन्द्रमौलेरीश्वरस्यादूरे समीपे वसन् । अत एव हेतोस्तमिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान् रात्रीनिविशत्यनुभवति किल। नित्यज्योत्स्नाविहारत्वमेतस्यैव नान्यस्येति भावः ।। ३४ ॥
अन्वयः-असौ महाकालनिकेतनस्य चन्द्रमौलेः अदूरे वसन् (अत एव) तमिस्रपक्षे अपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान् निर्विशति किल ।
व्याख्या-असौ अवन्तिनाथः, महाकालम् एतन्नामकं स्थानम् एव निकेतनम् स्थानम् यस्य सः, तस्य महाकालनिकेतनस्य चन्द्रः इन्दुः मौलौ मस्तके यस्य सः,