________________
२२
रघुवंश महाकाव्ये
इति नक्षत्रताराग्रहसंकुला अपि रात्रिः रजनी, चन्द्रमसा = चन्द्रेण एव = निश्चितम् ज्योतिः = नक्षत्रं प्रकाशश्च अस्या अस्तीति ज्योतिष्मती नान्येन केनापि ।
समासः-सुराजः अस्याः अस्तीति राजन्वती ताम् राजन्वतीम्, नक्षत्राणि ताराः ग्रहाश्चेति नक्षत्रताराग्रहास्तैः संकुला इति नक्षत्रताराग्रहसंकुला, ज्योतिः अस्ति अस्या इति ज्योतिष्मती ।
हिन्दी - - यद्यपि संसार में दूसरे हजारों राजा हैं, किन्तु पृथिवी इन्हीं के रहने से अच्छे राजावाली कहलाती है । जैसे--नक्षत्रों तारों और ग्रहों से भरी रहने पर भी रात्रि, चन्द्रमा से ही चाँदनीवाली कहलाती है ।। २२ ।।
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूत सहस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांञ्चकार ।। २३॥ संजी० - अन्यं परन्तपोऽध्वराणां ऋतूनां क्रियाप्रबन्धानुष्ठानसातत्यात् अवि। च्छन्नादनुष्ठानादित्यर्थः । अजस्रं नित्यमाहूतसहस्रनेत्रः संश्चिरं शच्या अलकाण्डपाण्डुकपोलयोर्लम्बान्स्रस्तान् । पचाद्यच् । मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार । प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति । 'प्रोषिते मलिना कृशा' इति । क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् | हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ।।' इति च स्मरणात् ॥ २३ ॥
अन्वयः - अयम्, अध्वराणाम्, क्रियाप्रबन्धात्, अजस्रम् आहूतसहस्रनेत्रः सन् शच्याः, अलकान् पाण्डुकपोललम्बान् मन्दारशून्यान् चकार ।
1
व्याख्या -अयम् = परन्तपः अध्वराणाम् = यज्ञानाम् कियायाः = अनुष्ठानस्य प्रबन्धः = नैरन्तर्यम् तस्मात् क्रियाप्रबन्धात् अजस्रम् = नित्यम्, आहूतः = आकारितः, सहस्रनेत्र: अ: = इन्द्रः येन स आहूतसहस्रनेत्र : सन्, चिरम् = चिरकालम्, शच्याः = इन्द्राण्याः अलकान् = केशान् पाण्डू पीतवर्णौ च तौ कपोलौ = गण्डस्थली इति पाण्डुकपोलौ तयोः पाण्डुकपोलयो: लम्बाः = स्रस्तास्तान् काण्डुकपोललम्बान्, मन्दारैः = कल्पवृक्षपुष्पैः शून्याः = रहितास्तान् मन्दारशून्यान्, चकार = कृतवान् । इन्द्रस्य सर्वदा परन्तपयज्ञे सन्निधानात् इन्द्राणी प्रोषितभर्तृका जाता, प्रोषितभर्तृका साध्वी च केशादिसंस्कारं न करोति, स्मृतिषु निषेधादित्यर्थः ।
-