________________
षष्ठः सर्गः समास:--क्रियायाः प्रबन्धस्तस्मात् क्रियाप्रबन्धात् सहस्रं नेत्राणि यस्य सः सहस्रनेत्रः आहूतः सहस्रनेत्रः येन स आहूतसहस्रनेत्रः, पाण्डू च ती कपोलौ इति पाण्डुकपोलो, तयोः लम्बास्तान् पाण्डुकपोललम्बान्, मन्दारैः शून्यास्तान् मन्दारशून्यान् ।
हिन्दी-इस परन्तप राजा ने यज्ञों के निरन्तर अनुष्ठान करके बार-बार अपने यज्ञ में इन्द्र को बुलाकर इन्द्राणी के केशों को जो कि पीले कपोलों पर लटक रहे हैं, कल्पवृक्ष के फूलों से शून्य कर दिया। अर्थात् इन्द्र के यज्ञ में चले जाने से इन्द्राणी प्रोषितभर्तृका हो जाती थी और इस कारण वह केशों को फूलों से नहीं सजाती थी ॥ २३ ॥
अनेन चेदिच्छसि गृह्यमाणं पाणि वरेण्येन कुरु प्रवेशे । प्रासादवातायनस श्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥२४॥ संजी०--अनेनेति । वरेण्येन वरणीयेन । वृणोतेरोणादिक एण्यप्रत्ययः । अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत्, पाणिग्रहणमिच्छसि चेदित्यर्थः । प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङगनानां पाटलिपराङ्गनानां नेत्रोत्सवं कुरु । सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः ।। २४ ॥
अन्वयः-वरेण्येन अनेन गृह्यमाणं पाणिम्, इच्छसि चेत्, प्रवेशे प्रासादवातायनसंश्रितानाम् पुष्पपुरांगनानाम् नेत्रोत्सवं कुरु।।
व्याख्या-वरेण्येन वरणीये = विवाहयोग्येनेत्यर्थः अनेन = राज्ञा परन्तपेन गृह्यते असौ गृह्यमाणस्तं गृह्यमाणम् = त्रियमाणम् , पाणिम् = करम्, इच्छसि = वांछसि, चेत् = विवाहं कर्तुमिच्छसि यदीत्यर्थः, प्रवेशे = पुरप्रवेशसमये, प्रासादानाम् = राजभवनानाम्, वातायनानि = गवाक्षास्तत्र संश्रिताः = उपविष्टाः स्थिता इत्यर्थः, तासाम् प्रासादवातायनसंश्रितानाम्, पुष्पपुरस्य, पाटलिपुत्रस्य, अंगनाः = स्त्रियस्तासाम् पुष्पपुराङ्गनानाम्, नेत्राणाम् = चक्षुषाम्, उत्सवः = आनन्दः सुखमित्यर्थः तम् नेत्रोत्सवम् कुरु = कुर्याः।
समासः-वरितुं योग्यः वरेण्यस्तेन वरेण्येन, गहयते असौ गृह्यमाणस्तं गृह्यमाणम्, प्रासादानाम् वातायनानि तेषु सश्रितास्तासाम्प्रासादवातायनसंश्रितानाम्, पुष्पपुरस्य अङ्गनास्तासाम् पुष्पपुराङ्गनानाम् , नेत्राणाम् उत्सवस्तम् नेत्रोत्सवम् ।