________________
षष्ठः सर्गः
अनुरञ्जने प्रसादने लब्धवर्णः विचक्षणः इति प्रजारजनलब्धवर्णः, अथवा प्रजारंजनेन लब्धवर्णः = प्राप्तोत्कर्षः । परान् = शत्रूम तापयति = खेदयतीति परन्तपः = परन्तपाख्यः नाम = प्रसिद्धम् , यथार्थम् = अन्वर्थम् , नाम = अभिधेयं यस्य स यथार्थनामा शत्रूणां संतापदानादित्यर्थः ।
समास:-शरणार्थम् उन्मुखास्तेषां शरणोन्मुखानाम्। शरणे साधुरिति शरण्यः। अगाधं सत्त्वं यस्य सः अगाधसत्त्वः, मगधेषु प्रतिष्ठा यस्य स मगधप्रतिष्ठाः, प्रजानां रञ्जने लब्धवर्णः प्रजारंजनलब्धवर्णः, यद्वा प्रजारञ्जनेन लब्धवर्णः, पराम् तापयतीति परन्तपः, यथार्थ नाम यस्य सः, यथार्थनामा।
हिन्दी-ये सामने बैठा हुआ राजा, शरण में आये हुओं की रक्षा करनेवाला, और बड़ा पराक्रमी मगध में प्रतिष्ठित परंतप नाम वाला है। अपनी प्रजा को सुख शान्ति देकर बड़ा नाम कमाया है। शत्रुओं को सन्ताप देने के कारण वास्तव में इनका परन्तप नाम सार्थक है ॥ २१॥
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसकुलापि ज्योतिष्मती चन्द्रमसव रात्रिः॥२२॥ सजी०-काममिति । अन्ये नृपाः कामं सहस्रशः सन्तु । भूमिमनेन राजन्वती शोमनराजवतीमाहुः, नैतादृक्कश्चिदस्तीत्यर्थः । 'सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्' इत्यमरः । 'राजन्वान्सौराज्ये' इति निपातनात्साघुः। तथा हि-नक्षत्ररश्विन्यादिमिस्ताराभिः साधारणज्योतिभिर्ग्रही मादिभिश्च सङकुलापि रात्रिश्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती, नान्येन ज्योतिषेत्यर्थः ॥ २२ ॥ ___ अन्वयः-अन्ये नृपाः कामम् सहस्रशः सन्तु, भूमिम् अनेन राजन्वतीम् आहुः नक्षत्रता ग्रहसंकुला अपि रात्रिः चन्द्रमसा एव ज्योतिष्मती ।
व्याख्या--अन्ये =अपरे, नृपाः = भूपालाः, सहस्रशः = अनेकशः असंख्याः, सन्तु = भवन्तु, (किन्तु) भूमिम् = पृथिवीम्, अनेन = परन्तपेन, राजा अस्ति अस्याः सा राजन्वती तां राजन्वतीम् == राजवतीम् आहुः = कथयन्ति, जनाः, एतादृशः कोऽपि नास्तीत्यर्थः, नक्षत्राणि =अश्विन्यादीनि ताराः = साधारणतारकाः ग्रहाः = भौमादयः, एतेषामितरेतरयोगः, इति नक्षत्रताराग्रहाः तैः संकुलाव्याप्ता