________________
२०
रघुवंशमहाकाव्ये रक्षतीति प्रतिहाररक्षी = द्वारपालिका, प्राक् =प्रथमम्, कुमारीम् = इन्दुमतीम्, मगधानामीश्वर इति मगधेश्वरः तस्य मगधेश्वरस्य सनिकर्ष = समीपम, नीत्वा = प्रापय्य, अवदत् = उक्तवती।
समासः-नन् = जनान् पान्ति = रक्षन्तीति नपास्तेषाम् नपाणाम् वत्तानि च वंशाश्चेति वृत्तवंशाः, श्रुताः वृत्तवंशा यया सा श्रुतवृत्तवंशा, पुंसा तुल्यमिति पुंवत्, प्रकर्षेण गल्भते इति प्रगल्भा, प्रतिहारं रक्षतीति प्रतिहाररक्षी, मगघानामीश्वर इति मगधेश्वरस्तस्य मगधेश्वरस्य ।
हिन्दी-इसके पश्चात् राजाओं के चरित्र एवं वंशावली को जाननेवाली पुरुषों के समान बड़ी ही ढीठ बोलने वाली सुनन्दा नाम की प्रतिहारी (रनिवास की द्वारपालिका ) सर्वप्रथम इन्दुमती को मगध नरेश के पास ले जाकर कहने लगी॥ २०॥
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा॥२१॥ संजी०-असाविति । असौ राजा । असाविति पुरोवर्तिनो निर्देशः । एवमुत्तरत्रापिद्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः, 'तत्र साधुः' इति यत्प्रत्ययः । शरणं भवितुमर्हः शरण्य इति नाथनिरुक्तिर्निमू लव । अगाधसरवो गम्भीरस्वभावः । 'सत्त्वं गुणे पिशाचादी बले द्रव्यस्वभावयोः' इति विश्वः । मगधा जनपदाः तेष प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः, 'प्रतिष्ठा कृत्यमास्पदम्' इत्यमरः । प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्छस्तापयतीति परन्तपः परन्तपाख्यः । 'द्विषत्परयोस्तापे' इति खच्प्रत्ययः। 'खचि ह्रस्वः' इति ह्रस्वः । 'अरुर्द्विषदजन्तस्य मम्' इति मुमागमः । नामेति प्रसिद्धौ, यथार्थनामा, शत्रुसन्तापनादिति भावः ॥ २१॥ ___ अन्वयः-असौ राजा शरणोन्मखानाम् शरण्यः अगाधसत्त्वः मगधप्रतिष्ठः प्रजारजनलब्धवर्णः परन्तपः नाम यथार्थनामा, अस्तीति शेषः ।
व्याख्या-असौ शुरोवर्ती राजा = भूपाल:, शरणार्थम् उन्मुखा इति शरणोन्मुखास्तेषां शरणोन्मुखानाम् = शरणागतानाम्, शरणे साधुरिति शरण्य:-रक्षकः, अगाघ गम्भीरम् सत्त्वं स्वभावो बलञ्च यस्य सः अगाधसत्त्वः, मगधेषु मगधजनपदेषु प्रतिष्ठा-आस्पदम् यस्य स मगधप्रतिष्ठः, प्रजानाम् = जनानाम्, रञ्जने