________________
कम्बवः, यत्र तस्मिन् प्रध्मातशले, मंगलमेवार्थः प्रयोजनं यस्य स तस्मिन् मंगलार्थमंगलप्रयोजनके, तूर्याणां-वाद्यानाम्-स्वनः घोषः तस्मिन् तूर्यस्वने, परितःसर्वतः, दिशाम्=काष्ठानाम्, अन्ता: अवसानास्तान् दिगन्तान् मूर्च्छति-व्याप्नुवति सति । (कन्या मञ्चान्तरराजमार्ग विवेश)। - समास :-पुरस्य उपकण्ठमिति पुरोपकण्ठम्, तस्मिन् यानि उपवनानि, तानि आश्रयः येषां ते तेषाम् पुरोपकण्ठोपवनाश्रयाणाम् उद्धतञ्च तन्नृत्यम् तस्य हेतुः इति उद्धतनृत्यहेतुः तस्मिन् उद्धतनृत्यहेतौ, प्रध्माताः शंखा यस्मिन्-तस्मिन् प्रध्मातशंखे, तूर्याणां स्वनः तस्मिन्-तूर्यस्वने, मंगलमेव अर्थः यस्य सः तस्मिन् मंगलार्थे, दिशाम् अन्तास्तान् दिगन्तान् ।
हिन्दी-नगर के आस-पास के उपवनों (बगीचों) में रहने वाले मयूरों के ताण्डव नृत्य (उछल कूद कर नाचना) का कारण अर्थात् मेघ की गर्जना समझकर मोर खूब नाचने लगते हैं और जिसमें शंख बजाये गये हैं ऐसे मांगलिक बाजों की ध्वनि से दसों दिशाओं के व्याप्त होने पर (अर्थात् गूंज उठने पर) ॥९॥
मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्ग पर्तिवरा क्लुप्तविवाहवेषा ॥ १० ॥
संजी०-मनुष्यवाह्यमिति । पतिं वृणोतीति पतिवरा स्वयंवरा। 'अथ स्वयंवरा । पतिवरा च वर्याऽथ' इत्यमरः । 'संज्ञायां भृतृवृजिधारिसहितपिदमः' इत्यनेन खच्प्रत्ययः । क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिबिकामध्यास्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गस्तं विवेश ॥ १० ॥
अन्वयः--पतिवरा क्लुप्तविवाहवेषा कन्या, मनुष्यवाह्यम् परिवारशोभि चतुरस्त्रयानम् अध्यास्य, मञ्चान्तरराजमार्गम् विवेश ॥१०॥
व्याख्या-पतिम् स्वामिनम्, वृणोति स्वीकरोतीति, पतिवरा = स्वयंवरा, क्लप्तः = विहितः विवाहस्य-परिणयस्य, वेषः=नेपथ्यं यया सा क्लुप्तविवाहवेषा, कन्याकुमारी इन्दुमतीत्यर्थः, मनुष्य: नरैः वाह्यम् =वोढुं योग्यम मनुष्यवाह्यम् परिवारेण = परिजनेन (सखीजनेनेत्यर्थः) शोभते = शालते यत् तत् परिवारशोभि,