________________
.
रघुवंशेनहाकाव्ये चत्वारः = चतु:संख्यकाः अस्राः= कोणाः यस्मिन् तत् चतुरस्रम् चतुरस्रञ्च तत् यातम् = वाहनम्, इति चतुरस्त्रयानम्-शिबिकाम्, अध्यास्यआरुह्य, मञ्चानाम् = पर्यङ्कानाम्, अन्तरम् == मध्यम्, इति मंचान्तरम्, राज्ञां मार्ग इति राजमार्गः, मंचान्तरे यो राजमार्ग इति मञ्चान्तरराजमार्गस्तम् मञ्चान्तरराजमार्गम् विवेश, प्रविष्टा।
ममाप:-पति वृणोति या सा पतिंवरा, क्लप्त: विवाहस्य वेषो यया सा फ्लप्तविवाहवेषा, मनुष्य: वाह्य मिति तत् मनुष्यवाह्यम्, परिवारेण शोभते यत् तत् परिवारशोभि, चत्वारः अत्रा यस्मिन् तत् चतुरस्रम्, चतुरस्रञ्च तत् यानमिति तत् चतुरस्रयानम्, मञ्चानामन्तरमिति मञ्चान्तरम् तत्र यो राज्ञां मार्गस्तम् मञ्चान्तरराजमार्गम् ।
हिन्दी-पति को चुनने के लिए विवाह के समय की वेषभूषा धारण किए हुए कुमारी इन्दुमती, पालकी में चढ़कर मञ्चों के बीच वाली सड़क में आयी, उस पालकी को मनुष्य ढो रहे थे और वह चारों तरफ पैदल चलते हुए दासदासियों से सुशोभित थी॥१०॥
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतै कलक्ष्ये । निपेतुरन्तःकरणैर्नरेन्द्रा देहै: स्थिताः केवलमासनेषु ॥ ११ ॥ संजी०-तस्मिन्निति । नेत्रशतानामेकलक्ष्ये एकदृश्ये कन्यामये कन्यारूपे तस्मि विधातुर्विधानातिशये सष्टिविशेषे नरेन्द्रा अन्तःकरणैनिपेतुः । आसनेषु देहै: केवलं देहैरेव स्थिताः । देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः । अन्त:करणकर्तृ के निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ॥ ११॥
अन्वयः-नेत्रशतैकलक्ष्ये कन्यामये तस्मिन् विधातुः विधानातिशये, नरेन्द्राः अन्तःकरणः निपेतुः, आसनेषु देहैः केवलम् स्थिता:।
व्याख्या--नेत्राणाम् = चक्षुषाम्, शतानि इति नेत्रशतानि, एकश्चासौ लक्ष्यः, इति एकलक्ष्य:, नेत्रशतानाम् एकलक्ष्यः एकदृश्य:, तस्मिन् नेत्रशतैकलक्ष्ये, कन्या एव इति कन्यामयस्तस्मिन् कन्यामये- कन्यारूपे, तस्मिन् पूर्वोक्ते विदधाति लोकमिति विधाता तस्य विधातुः ब्रह्मणः, विधानस्य सृष्टेः, अतिशय:-विशेषः, तस्मिन् विधानातिशये, नराणाम् मनुष्याणाम्, इन्द्रा: स्वामिनः इति नरेन्द्रा: अन्तःकरणैः =