________________
रघुवंशमहाकाव्ये मनुष्याणां, देवाः स्वामिनस्तेषां, लोकः-समूहः तस्मिन् नरदेवलोके स्तुते प्रशंसिते सति, संचारिते-समन्तात् प्रचारिते अगुरोः सुरभिद्रव्यस्य सारः = सारभागस्तत्त्वमित्यर्थः, योनि:- कारणं यस्य सः अगुरुसारयोनिः, तस्मिन् अगुरुसारयोनौ धूपे= सुरभिद्रव्यमिश्रितधूपे च वैजयन्ती: पताकाः समुत्सर्पति अतिक्रम्य गच्छति सति । ( कन्या मञ्चान्तरराजमार्ग विवेशेति सम्बन्धः )।
समास:-अन्वयं जानन्ति ते अन्ययज्ञास्तरन्वयज्ञैः, सोमश्च अर्कश्चेति तो सोमाको तयोः वंश इति सोमार्कवंशस्तस्मिन् भवः, तस्मिन् सोमार्कवंश्ये । नराणां देवास्तेषां लोकः इति नरदेवलोकस्तस्मिन् नरदेवलोके, अगुरो: सारः योनिः यस्य सः, तस्मिन् अगुरुसारयोनौ।
हिन्दी-इसके पश्चात् राजाओं के वंश को जाननेवाले भाँटों ने चन्द्रवंश और सूर्यवंश में उत्पन्न उन सब राजाओं की प्रशंसा की। ( अर्थात् उनका गुणगान किया ) और इधर अगर के सारभाग से बनाई धूपबत्तियों का धूआँ फहराती हुई झण्डियों के ऊपर चढ़ गया ॥ ८॥
पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेती।
प्रध्मातशङ्ख परितो दिगन्तांस्तूर्यस्वने मूर्च्छति मङ्गलार्थे ।।९।। संजी०-पुर इति ! किं च पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां तेषां कलापिनां बर्हिणामुद्धतनृत्यहेतौ मेघध्वनिसादृश्यात्ताण्डवकारणे प्रध्माता: पूरिताः शङ्खा यत्र तस्मिन् मङगलार्थे मडागलप्रयोजनके तूर्यस्वने वाद्यघोषे परितः सर्वतो दिगन्तान्मूर्च्छति व्याप्नुवति सति ॥ ९॥
अन्वयः-पुरोपकण्ठोपवनाश्रयाणाम् कलापिनाम् उद्धतनृत्यहेतौ प्रध्मातशंखे मङ्गलार्थे तूर्यस्वने परितः दिगन्तान् मूर्च्छति सति ॥ ९॥
व्याख्या-पुरस्य = नगरस्य, उपकण्ठम् = समीपम् इति पुरोपकण्ठम्, तत्र उपवनानि = आरामाः, इति पुरोपकण्ठोपवनानि, तान्येव आश्रयः स्थानम् येषान्ते ते तेषाम्-पुरोपकण्ठोपवनाश्रयाणाम्, कलापा:बर्हाः सन्ति येषान्ते कलापिनस्तेषां कलापिनाम्-मयूराणाम्, उद्धतम्-ताण्डवश्च तत् नृत्यम्-नर्तनमिति, उद्धतनृत्यम् तस्य हेतु:-कारणम् तस्मिन्, उद्धतनृत्यहेतो, प्रध्माता:=पूरिता: वादिताः, शंखा: