________________
षष्ठः सर्गः व्याख्या-पुरे भवाः पौराः, पौराणां = नागरिकाणाम, जनः = समूहः तस्य पौरजनस्य, नेत्राणां = चक्षुषां, व्रजाः = समूहाः, इति नेत्र व्रजाः, सर्वान् =अखिलान्, नृपतीन् = भूपालान्, विहाय = परित्यज्य, मदेन = मदजलेन, उत्कट: उद्भिन्नगण्डः तस्मिन् मदोत्कटे, वने भवः वन्यस्तस्मिम् वन्ये = जांगलिके, गन्धप्रधानः द्विपः गन्धद्विपस्तस्मिन्, गन्धद्विपे = गजे, रेचिताः परित्याजिताः, पुष्पाणाम् कुसुमानाम् वृक्षाः = द्रुमा यैस्ते रेचितपुष्पवृक्षाः, द्वौ रेफौ येषान्ते द्विरेफा: भ्रमराः इवन्यथा, तस्मिन् = अजे रघुपुत्रे निपेतुः= पतिताः।
समासः-पुरे भवाः पौरास्तेषां जनस्तस्य पौरजनस्य । नेत्राणां व्रजाः नेत्रव्रजाः । मदेन उत्कटः इति मदोत्कटस्तस्मिन् मदोत्कटे। वने भवः वन्यस्तस्मिन् वन्ये। गन्धप्रधानः द्विपः गन्धद्विपः तस्मिन् गन्धद्विपे। पुष्पाणां वृक्षा इति पुष्पवृक्षाः, रेचिताः पुष्पवृक्षा यस्ते रेचितपुष्पवृक्षाः । द्वौ रेफौ येषान्ते दिरेफाः।
हिन्दी-जिस प्रकार फूलवाले वृक्षों को छोड़कर मद बहाने वाले जंगली हाथी के ऊपर भ्रमर झुक पड़ते हैं; अर्थात् उस हाथी पर चिपट जाते हैं, उसी प्रकार नागरिकों के नेत्र सब राजाओं को छोड़कर अज पर ही जा लगे ॥७॥
अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके ।
सञ्चारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥ ८॥ संजी०-अथेति । अथान्वयज्ञै राजवंशाभिर्बन्दिभिः स्तुतिपाठकः। 'बन्दिनः स्तुतिपाठकाः' इत्यमरः । सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति । विवेशेत्युत्तरेण सम्बन्धः । एवमुत्तरत्रापि योज्यम् । सञ्चारिते समन्तात्प्रचारिते । अगुरुसारो योनिः कारणं यस्य तस्मिन्धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति अतिक्रम्य गच्छति सति ॥८॥
अन्वय:-अथ अन्वयज्ञैः बन्दिभिः सोमार्कवंश्ये नरदेवलोके, स्तुते सति, संचारिते अगुरुसारयोनी धूपे वैजयन्तीः समुत्सर्पति च सति (कन्या मञ्चान्तरराजमार्ग विवेशेति दशमश्लोकेनान्वयः) ॥८॥
व्याख्या-अथ अनन्तरम्, अन्वयम्=कुलम्, जानन्ति=विदन्तीति अन्वयज्ञास्तैः अन्वयज्ञैः, वन्दिभिः = स्तुतिपाठकैः, सोमः = चन्द्रः, अर्कः सूर्यस्तयोः, वंश:=कुलम् तस्मिन् सोमार्कवंशे भवः उत्पन्नः इति सोमार्कवंश्यः, तस्मिन् सोमार्कवंश्ये, नराणां