________________
रघुवंश महाकाव्ये
अन्वयः - हार्हालिनसंस्थितानाम्
उदारनेपथ्यभृताम् तेषाम् मध्ये कल्पद्रुमाणाम् मध्ये पारिजातः इव सः रघुसूनुरेव, धाना रराज ।
व्याख्या--महच्च तत् अर्हञ्चेति महार्हम्, महार्हम् = बहुमूल्यं श्रेष्ठम् च तदासनम्=सिंहासनम् इति महार्हासनम् तस्मिन् संस्थितानाम्=उपविष्टानाम् इति महार्हासनसंस्थितानाम्, उदारम् = उज्ज्वलम् नेपथ्यम् = वेषभूषाम् विभ्रति=धारयन्तीति उदारनेपथ्यभूतस्तेषानुदारनेपथ्यभृताम्, तेषाम् = भूपालानाम् मध्ये अन्तराले, कल्पद्रुमाणाम् = कल्पवृक्षाणाम मध्ये पारिजात : = देवद्रुमविशेष:, इव= यथा सः पूर्वोक्तः रघोः = दिलीपसूमो : सूनुः = पुत्रः इति रघुसूनुः = अज एव धाम्ना = तेजसा, रराज = शुशुभे ।
=
सयासः -- महच्च तदर्हञ्चेति महार्हम्, महार्हञ्च तदासनम् महार्हासनम् तस्मिन् संस्थितास्तेषाम् महार्हासनसंस्थितानाम् । उदारञ्च तत् नेपथ्यम् इति उदारनेपथ्यम्, तद् बिभ्रतीति उदारनेपथ्यभृतः तेषाम् उदारनेपथ्यभृताम् कल्पा इति द्रुमाः कल्पद्रुमास्तेषाम् कल्पद्रुमाणाम् । रघोः सूनुरिति रघुसूनुः ।
हिन्दी -- जिस प्रकार कल्पवृक्षों में पारिजात नामक वृक्ष ही सबसे अधिक सुन्दर होता है उसी प्रकार बहुमूल्य सिंहासनों पर बैठे हुए और सुन्दर उज्ज्वल वेष धारण किए हुए उन राजाओं के बीच में वह रघु का पुत्र, अज ही तेज से खिल रहा था || ६॥
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ ७ ॥ संजी० - तेत्रेति । पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः । स एव सर्वोत्कर्षेण ददृश इत्यर्थः । कथमिव मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा न्ये गन्धप्रधाने द्विपे गजे । रेचिता रिक्तीकृता: पुष्पाणां वृक्षा यैस्ते त्यक्तपुष्पवृक्षा इत्यर्थः । द्विरेका शृङ्गा इव । द्विपस्य वन्यविशेषणं द्विरेफाणां पुष्पवृक्षत्यागसम्भवार्थं कृतम् ।। ७ ॥
अन्वयः - पौरजनस्य नेत्रव्रजाः सर्वान् नृपतीन् विहाय, मदोत्कटे वन्ये गन्धद्विपे, रेचित पुष्पवृक्षाः द्विरेफाः इव तस्मिन् निपेतुः ॥ ७ ॥