________________
षष्ठः सर्ग: दप्रत्ययः। तस्मिन् समये प्रत्येकं सक्रान्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ॥५॥
अन्वयः-तासु राजपरम्परासु श्रिया (का) पयोमुचाम् पंक्तिषु विद्युता इव सहनषा विभक्तः प्रभाविशेषोदयदुनिरीक्या बात्मा व्यदबत् ।
व्याख्या-तासु = पूर्वोक्तासु राज्ञां भूपालानाम् परम्पराः पंक्तयः, तासु राजपरम्परासु श्रियालक्ष्म्या (का) पयांसि = जलानि, मुञ्चन्ति=वर्षन्तीति पयोमुचस्तेषां पयोमुचाम् = मेघानाम् पंक्तिषु = श्रेणिषु विद्युता चपलया इव = यथा सहस्रधा- सहस्रप्रकारेण विभक्तःप्रत्येक व्यक्तिषु संक्रामित इत्यर्थः। प्रमाया: = कान्तेः विशेष;= आधिक्यं तस्य उदयः = आविर्भावः तेन दुनिरीक्ष्य:दुःखेन द्रष्टुं शक्यः, आत्मा श्रियः स्वरूपम् व्यरुचत् = व्यद्योतिष्ट । स्वयंवरसमये प्रत्येकं राजसु प्रतिबिम्बितलक्ष्मीकत्वेन भूपालानामत्यधिकं दुर्धर्ष तेजः प्रादुबभूवेत्यर्थः।
समास:-राज्ञां परम्पराः तासु राजपरम्परासु । प्रमायाः विशेषस्य उदयेन दुनिरीक्ष्यः प्रभाविशेषोदयदुनिरीक्ष्यः पय: मुञ्चन्तीति पयोमुचः, तेषां पयोमुचाम् ।
हिन्दी-स्वयंवर में बैठे प्रत्येक राजा में जैसे बिजली अपनी चमक बादलों में बांट देती है, उसी प्रकार मानो लक्ष्मी ने आंखों को चकाचौंध कर देने वाली अपनी शोभा बाँट दी है, अत: वे अत्यन्त देदीप्यमान हो गये ॥ ५ ॥
तेषां महार्हासनसस्थितानामुदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः॥६॥ संजी०--तेषामिति। महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम । उदारनेपथ्यभृता मुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये । कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव । ‘पञ्चैते देवतरवो मन्दार: पारिजातकः । संतान: कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरः । स रघुसूनुरेव धाम्ना तेजसा । 'भूम्ना' इति पाठेऽतिशयेनेत्यर्थः । रराज । अत्र कल्पद्रुमशब्दः पञ्चान्यतमविशेषवचनः, उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसन्धेयम्। कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ॥ ६ ॥