________________
रघुवंशमहाकाव्ये संजी०-परायेति । परार्ध्याः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनोपपन्नं सङगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्ठितवान्सोऽजः मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह । 'सेनानीरग्निभूर्गुहः' इत्यमरः । भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत् । मयूरस्य विचित्ररूपवत्वात्तत्साम्यं रत्नासनस्य। तद्वारा च तदारूढयोरपीति भावः ॥४॥
अन्वयः-पराध्यवर्गास्तरणोपपन्नम्, रत्नवदासनम् आसेदिवान सः, मयूरपृष्ठाश्रयिणा गुहेन भूयिष्ठम् उपमेयकान्तिः आसीत् । ___ व्याख्या-परार्ध्याः = उत्कृष्टाः, वर्णाः =नीलपीतादयः यस्य त परार्ध्यवर्णम् । पराय॑वणं च तत् आस्तरणं-कम्बलादि, तेन उपपन्नम् युक्तम्, आच्छादितमित्यर्थः, रत्नानि-हीरकपनरागादीनि सन्ति अस्य तत् रत्नवत् हीरकादिमणिखचितमित्यर्थः, आसनम् = सिंहासनम्, आसेदिवान् = अधिष्ठितवान्, सः= अजः; मयूरस्य = बहिणस्य, पृष्ठं = पश्चाद्भागम्, आश्रयते=अधितिष्ठति, इति मयूरपृष्ठाश्रयी तेन मयूरपृष्ठाश्रयिणा गुहेन-कार्तिकेयेन भूयिष्ठं अत्यधिकम्, उपमेयाउपमातुं योग्या कान्तिः शोभा यस्य स उपमेयकान्तिः, आसीत् = अभूत् ।
समास:-परार्ष्याः वर्णाः यस्य तत् परार्ध्यवर्णञ्च तत् आस्तरणञ्च तेन उपपन्नम् तत् परार्ध्यवर्णास्तरणोपपन्नम् । रत्नानि सन्त्यस्येति तत् रत्नवत् । उपमेया कान्तिर्यस्य स उपमेयकान्तिः । मयूरस्य पृष्ठम् आश्रयतीति तेन मयूरपृष्ठाश्रयिणा।
हिन्दी-सुन्दर रंग-विरंगे वस्त्र जिसपर बिछे हुए हैं, ऐसे रत्नजड़ित सिंहासन पर बैठा हुआ अज ऐसा लग रहा था मानो मोर की (अनेक रंगवाली) पीठ पर बैठे हुए कार्तिकेय हों ॥ ४ ॥
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुनिरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ।। ५ ।। संजी०-तास्विति । तासु राजपरम्परासु श्रिया लक्ष्म्या का पयोमुचां मेघाना पंक्तिषु विद्यतेव सहस्रधा विभक्तः तरंगेषु तरणिरिव स्वयमेक एव प्रत्येक सङक्रामित इत्यर्थः। प्रभाविशेषस्योदयेनाविर्भावेन दुनिरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्वयद्योतिष्ट । 'युद्भयो लुङि' इति परस्मैपदम् । द्युतादित्वा