________________
७६
पञ्चमः सर्गः शृंखलानि=निगडानि, कर्षन्ति आकर्षणं कुर्वन्तीति मुखरशृंखलकर्षिणः । ते-पूर्वोक्ताः “तव" स्तम्बे-दर्भादितृणसमूहे रमन्ते क्रीडन्तीति स्तम्बेरमाः गजाः, शय्यां शयनस्थानम् । जहति=त्यजन्ति । येषां स्तम्बेरमाणाम् । दन्ता रदाः, कोशाः कुड्मलाः इव इति दन्तकोशाः 'रदना दशना दन्ता रदाः, कोशोऽस्त्री कुड्मले' इति चामरः। तरुण: बालश्चासौ अरुणः= अर्कश्चेति तरुणारुण:-बालसूर्यः, तस्य रागः रक्तिमा, इति तरुणारुणरागः, तस्य योगः=सम्पर्कस्तस्मात् तरुणारुणरागयोगात् । अद्रेः पर्वतस्य गरिकतटा: गैरिकशिखराः इति अद्रिगैरिकताः। भिन्नाः छिन्नाः अद्रिगैरिकता यैस्ते, भिन्नाद्रिगैरिकतटाः । इव-यथा विभान्ति शोभन्ते ।
समा०-उभौ च तो पक्षौ उभयपक्षौ, उभयपक्षाम्यां विनीता निद्रा येषां ते उभयपक्षविनीतनिद्राः। मुखराणि शृंखलानि कर्षन्तीति मुखरशृंखलकर्षिणः । दन्ताः कोशाः इवेति दन्तकोशाः। तरुणश्चासौ अरुण इति तरुणारुणः, तरुणारुणस्य रागः, तस्य योगः तस्मात् तरुणारुणरागयोगात् । गैरिकाश्च ते तटा इति गैरिकतटाः, अद्रेः गैरिकतया इति अद्रिगरिकतटाः, भिन्नाः अद्रिगैरिकतटाः यैस्ते भिन्नाद्रिगैरिकतटाः । ___अमि०-पार्श्वद्वयपरिवर्तनपूर्वक त्यक्तनिद्राः उत्थानचलनेन झणझणेति शब्दायमानलोहशृंखलककर्षिणस्ते सेनागजेन्द्राः शयनस्थानात् उत्तिष्ठन्ति, येषां च गजेन्द्राणां दन्ताः प्रातःकालिकसूर्यसम्पर्कात् , गैरिकधातुरता इव भान्ति ।
हिन्दी-दोनों करवट बदलकर निद्रा को छोड़नेवाले और खनखनाती हुई सांकलों को खींचते हुए तुम्हारी सेना के हाथी उठ गये हैं। बाल सूर्य की लाल किरणों के सम्पर्क से उनके दाँत ऐसे शोभित हैं मानों उन्होंने पर्वत के गैरिक शिखर तोड़े हों ।। ७२ ॥
दीर्घष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय वनजाक्ष वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥७३॥ सब्जीविनी-हे वनजाक्ष नीरजाक्ष! 'वनं नीरं वनं सत्त्वम्' इति शाश्वतः। दीर्धेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः 'पारसीका