________________
८०
रघुवंशमहाकाव्ये वनायुजाः' इति हलायुधः। अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्वाद्यानि सैन्धवशिलाशकलानि 'सैन्धवीऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे' इत्यमरः। वक्त्रोमणा मलिनयन्ति मलिनानि कुर्वन्ति । उक्तं च सिद्धयोगसंग्रहे-'पूर्वाह्नकाले चाश्वानां प्रायशो लवणं हितम् । शूलमोहवि. बन्धघ्नं लवणं सैन्धवं वरम्' इत्यादि । ___ अन्वयः-वनजाक्ष ! दीर्थेषु, पटमंडपेषु नियमिताः, वनायुदेश्या: अमी, वाहाः निद्रां विहाय पुरोगतानि, लेह्यानि सैन्धवशिलाशकलानि वक्त्रोष्मणा मलिनयन्ति ।
वाच्य०-पटमण्डपेषु नियमितैः वनायुदेश्यः, अमीभिः वाहैः सैन्धवशिलाशकलानि मलिन्यन्ते ।। __व्याख्या-वने जले, जातम् उत्पन्नं, वनजं-कमलमिव अक्षिणीनेत्रे यस्य स तत्संबुद्धौ हे वनजाक्ष ! अज ! 'पयःकीलालममृतं जीवनं भुवन वनम्' इत्यमरः । दीषु आयतेषु । पटनिामताः मण्डपाः पटमण्डपास्तेषु पटमण्डपेषु= उपकार्यातु। नियमिताः संयताः बद्धा इत्यर्थः । वनायुदेशे भवाः वनायुदेश्याः पारसीकाः । अमी=पुरःस्थिताः, वाहाः घोटकाः, सेनातुरंगा इत्यर्थः । निद्रां-स्वापं विहाय-परित्यज्य । पुरोगतानि-सम्मुखस्थानि । लेढुं योग्यानि लेह्यानिआस्वाद्यानि । सिन्धुदेशे भवः सैन्धवः, तस्य सैन्धवस्य-लवणस्य, शिलाः दृषदः इति सैन्धवशिलाः, सैन्धवशिलानां शकलानि खण्डान् रति सैन्धवशिलाशकलानि । वक्त्रस्य मुखस्य । ऊष्मा उष्णता तेन वक्त्रोष्मणा । मलिनयन्तिमलिनानि कुर्वन्नि ।
समा०-वने जाते वनजे इव अक्षिणी यस्य सः, तत्संबुद्धौ हे वनजाक्ष ! पटनिर्मिताः मण्डपा इति पटमण्डपास्तेषु एटमण्डपेषु । वनायुदेशे भवा वनायुदेश्याः। सिन्धौ (देशे) भवं सैन्धवम्, सैन्धवस्य शिलाः सैन्धवशिलाः, तासां शकलानि इति सैन्धवशिलाशकलानि । वक्त्रस्य ऊष्मा वक्त्रोष्मा तेन वक्त्रोष्मणा ।
अभि०--हे कमललोचन अज! पटनिर्मिताश्वशालासु संयताः पारसीका एते तव सेनाघोटकाः निद्रां त्यक्त्वा, लेह्यलवणशिलाखण्डान् निजमुखश्वासौष्ण्येन मलिनीकुर्वन्ति ।
हिन्दी-हे कमल के समान नेत्रवाले अज ! बड़े-बड़े, पटनिर्मित मण्डपों में बंधे हुए, काबुलदेश के ये घोड़े, नींद को त्यागकर चाटने योग्य सैन्धा नमक की शिलाओं के टुकड़ों को अपने मुख की गरमी से मलिन कर रहे हैं ॥७३॥