________________
रघुवंशमहाकाये
अभि-यथा सूर्योदयात्पूर्वमेवारुणः झटिति तमो निवारयति, एवं हे वीर ! संग्रामेषु योधाग्रगण्ये त्वयि वर्तमाने सति तव पिता शत्रणामुन्मूलनं स्वयमेव करिष्यति किं वा । अतस्त्वयापि पितुः पूर्वमेवोत्थाय स्वकर्तव्यं पालनीयम् ।
हिन्दी-सूर्योदय से पहले ही अरुण, संसार से अन्धकारको भगा देता है यह उचित ही है, योग्य सेवक के रहते स्वामी को स्वयं कार्य करने का कष्ट नहीं होना चाहिये, अतः संग्राम में सबसे आगे लड़नेवाले तुम्हारे समान योग्य पुत्र के रहते हुए, क्या तुम्हारे पिता जी को शत्रुओं का विनाश स्वयं करना पड़ेगा ? अर्थात् कभी नहीं ॥७॥
शय्यां जहत्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरशृङ्गालकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगा
द्भिन्नाद्रिगैरिकतटा इक दन्तकोशाः ॥७२॥ सब्जीविनी-उभाभ्यां पक्षाभ्यां पाश्वभ्यां विनीता अपगता निदा येषां ते उभयपक्षविनीतनिद्राः, अत्र समासविषय उभशब्दस्थान उभयशंब्दप्रयोग एव साधुरित्यनुसंधेयम् । यथाह कैयरः-'उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो मा भूत् उभयशब्दस्यैव यथा स्यात् 'उभय पुत्र इत्यादि भवति' इति । मुखराण्युत्थानचलनाच्छन्द्रायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते एव तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः 'स्तम्बकर्णयोरमिजपोः' इत्यच्प्रत्ययः 'हस्तिसूचकयोः' इति वक्तव्यात् । 'इभः स्तम्बरमः पद्मी' इत्यमरः । 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । शय्यां जहति त्यजन्ति । येषां स्तम्बरमाणां दन्ताः कोशा इव दन्तकोशाः दन्तकुडमःलास्तरुणारुणरागयोगाद्वालार्कारुणसंपर्का तोभिन्नाद्रिगरिकतटा इव विभान्ति धातुरता इच भान्तीत्यर्थः ॥७२॥
अन्वयः-उभयपक्षविनीतनिद्राः, मुखरशृङ्खलकर्षिणः, ते, स्तम्बेरमाः, शय्यां जहति, दन्तकोशाः, तरुणारुणरागयोगात्, भिन्नाद्रिगरिकताः, इव विभान्ति ।
वाच्य०--उभयपक्षविनीतनिद्रैः मुखरशृंखलकर्षिभिः स्तम्बेरमैः, शय्या हीयते, येषां दन्तकोशः तरुणारुणरागयोगात् भिन्नाद्रिगैरिकतटैः इव भायते ।
व्याख्या--उभौ-द्वौ, च तो पक्षौ पाश्वौं इति उभयपक्षी, विनीता त्यक्ता निद्रा-स्वापः येषां ते उभयपक्षविनीतनिद्राः। मुखराणि-शब्दायमानानि