________________
पञ्चमः सर्गः
७५ सिजैः कमलैः सह 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । संसृज्यते संगच्छते । सृजेवादिकात्कर्तरि लट् ॥६६॥ ___ अन्वयः-विभातवायुः,स्वाभाविकं, ते,मुखमारुतस्य,सौरभ्यं,परगुणेन, ईप्युः,इव अनोकहानां, श्लथं, पुष्पं, वृन्तात्, हरति, अरुणांशुभिन्नैः, सरसिजैः, सह, संसृज्यते।
वाच्य०-विभातवायुना सौरभ्यमीप्सुना इव वृन्तात् पुष्पं ह्रियते ।
व्याख्या-विशेषेण भाति वस्तु यस्मिन् तत विभातं विभातस्य प्रभातस्य वायुः पवनः इति विभातवायुः । स्वाभाविक नैसर्गिकम् । =तवाजस्य । मुखस्य आननस्य, मारुत: वायुः आश्वासपवन इत्यर्थः । तस्य मुखमारुतस्य । सुरभेर्भावः सौरभ्यं सौगन्ध्यम् । परस्य अन्यस्य, गुणः गन्धः इति परगु. गस्तेन परगुणेन । ईप्सुः प्राप्तुमिच्छुः । इव=यथा अनोंकहानां-वृक्षाणाम् । श्लथं शिथिल पुष्पं कुसुमम् । वृन्तात्=पुष्पबन्धनात् 'वृन्तं प्रसवबन्धनम्' इत्यमरः। हरति आदत्ते गृह्णातीत्यर्थः। अरुणस्य-सूयस्य । अंशवः किरणाः इति अरुणाशवस्तैः अरुणांशुभिः, भिन्नानि=विकसितानि, तैः अरुणांशुभिन्नैः । सरसि जातानि, तैः सरसिजैः कमलः, सह–साकम् । संसृज्यते संगच्छते ।
समा०-विभातस्य वायुरिति विभातवायुः। मुखस्य मारुतः मुखमारुतस्तस्य मुखमारुतस्य । परस्य गुणः परगुणस्तेन परगुणेन । अरुणस्य अंशवः अरुणांशवः, ः भिन्नानि इति अरुणांशुभिन्नानि, तैः अरुणांशुभिन्नः । सरिसि जातानि, तैः सरसिजः । ___ अभि०-प्रातःकालीनः पवनः स्वाभाविकं ते निश्वासवायोः सौगन्ध्यं परकीयगन्धेन प्राप्तुमिच्छुरिव वृक्षाणां शिथिलपुष्पाणि वृन्तात् गृह्णन् सूर्यकिरणसंपर्कात् विकसितकमलैश्च सह संमिलितो भवति, अतस्त्वं निद्रां त्यजेत्यभिप्रायः । ___हिन्दी-प्रातः काला का पवन वृक्षों के ढीले पुष्पों को गिरा रहा है और सूर्य की किरणों से खिले हुये कमलों को छूता हुआ चल रहा है, मानों तुम्हें सोया हुआ देखकर वह तुम्हारे मुख की स्वाभाविक सुगन्धि को दूसरों से प्राप्त करने की इच्छा कर रहा है ॥६६॥
ताम्रोदरेषु पतितं तरुपल्लवेषु
निधौतहारगुलिकाविशदं हिमाम्मः । । आभाति लब्बपरभागतयाधरोष्ठे
लोलास्मितं सदशनार्जिरिव त्वदीयम् ।।७०॥