________________
रघुवंशमहाकाव्ये सजीविनी-ताम्रोदरेवरुणाभ्यन्तरेषु तरुपल्लवेषु पतितं निर्माता या हारगुलिका मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्पतया 'परभागो गुणोत्कर्षे' इति यादवः । अधरोष्ठे त्वदीयं सदशनाचिदन्तकान्ति. सहितं लीलास्मितमिवाभाति शोभते ॥७॥
अन्वयः--ताम्रोदरेषु, तरुपल्लवेषु, पतितं निधौतहारगुलिकाविशदं, हिमाम्भः, लब्धपरभागतया, अघरोष्ठे स्वदीयं, सदशनार्चिः, लीलास्मितम्, इव, आभाति ।
वाच्या-ताम्रोदरेषु तरुपल्लवेषु पतितेन निर्धातहारगुलिकाविशदेन हिमाम्भमा लब्धपरभागतयाऽधरोष्ठे त्वदीयेन सदशनार्चिषा लीलास्मितेनेव आभायते ।
व्याख्या-ताम्रवत्--शुल्बवत् 'अथ ताम्रकम् । शुल्बं म्लेच्छमुखम्' इत्यमरः । उदरम् आभ्यन्तरं येषां तानि, तेषु ताम्रोदरेषु अणाभ्यन्तरेष्वित्यर्थः । तरूणांपादपानाम् । पल्लवानि=किसलयानि तेषु, तरुपल्लवेषु । पतितं च्युतम् हारस्य गुलिकाः इति हारगुलिकाः, निर्धाताः प्रक्षालिताश्च ताः हारगुलिकाः= मुक्तामणयः इति निधौतहारगुलिकाः, तद्वत् विशदं स्वच्छमिति निर्धांतहारगुलिकाविशदम् । हिमस्य-तुषारस्य, अम्भः जलमिति हिमाम्भः। लब्धः प्राप्तः, परभागः= गुणोत्कर्षः, येन स लब्धपरभागः, तस्य भावः लब्धपरभागता, तया लब्धपरभागतया। अधरश्चासौ ओष्ठश्चेति अधरोष्ठस्तरिमन् अधरोष्ठे अघस्तनदन्तच्छदे। तवेदं त्वदीयं भवदीयम् । दशनानां दन्तानाम् अचिः किरणः इति दशनाचिः दशनार्चिषा सह वर्तते इति सदशनार्चिः । लीलया विलासेन, स्मितम् ईषद्धसनमिति लीलास्मितम् । इव यथा । आभाति-शोभते । ____समा०-ताम्रवत् उदरं येषां तानि ताम्रोदराणि, तेषु ताम्रोदरेषु । तरूणां पल्लवानि, तेषु तरुपल्लवेषु । हारस्य गुलिकाः हारगुलिकाः, निर्धीताश्च ताः हारगुलिकाः इति निधौतहारगुलिकाः, निधौतहारगुलिका इव विशदमिति निर्धातहारगुलिकाविशदम् । हिमस्य अम्भः हिमाम्भः । लब्धः परभागो येन स लब्धपरभागस्तस्य भावस्तत्ता, तया लब्धपरभागतया । अधरश्चासौ ओष्ठश्चेति अधरोष्ठस्तस्मिन् अधरोष्ठे। तवेदं त्वदीयम् । दशनानाम् अचिरिति दशनाचिः। दशनार्चिषा सह वर्तते इति सदशनार्चिः । लीलया स्मितमिति लीलास्मितम् ।
अभि०---अरुणाभ्यन्तरतरुपल्लवेषु रात्रौ पतितं स्वच्छमुक्ताफलसदृशं तुषारजलं प्राप्तोत्कर्षतया तवाधरोष्ठे वर्तमानं दन्तुद्यतियुतं लीलाहास्यमिव शोभते ।