________________
७४
रघुवंशमहाकाव्ये
__ ज्याख्या-तत्-तस्मात् हेतोः लक्ष्मीपरिग्रहणादित्यर्थः, वल्गुना=मनो. ज्ञेन युगपद-एकवारम् । तावद्-एव उन्मिषितेन-उन्मीलितेन पापक्षे विकसितेन । सद्यः-सपाद द्वे-उभे नेत्रपद्म इत्यर्थः। परस्परयोः अन्योन्ययोः । तुला-सादृश्यं इति परस्परतुला तां परस्परतुलाम्। अधिरोहतां प्राप्नुताम् , 'के द्वे इत्याह' अन्तःमध्ये परुषात् इतरा परुषेतरा । प्रस्पन्दमाना-प्रकर्षण चलन्ती, परुषेतरा-स्निग्धा, तारा-कनीनिका यस्य तत् , प्रस्पन्दमानपरुषेतरतारम् । तव अजस्य, चक्षुः नेत्रम् अन्तः मध्ये। प्रचलिताः-अमन्तः। भ्रमराः द्विरेफाः यस्मिन् तत् प्रचलितभ्रमरं पद्म कमलं च ।
समा०-परस्परयोः तुला इति परस्परतुला, तां परस्परतुलाम् । परुषात् इतरा इति परुषेतरा, प्रस्पन्दमाना परुषेतरा तारा गस्य तत् प्रस्पन्दमानपरुषे. तरतारम् । प्रचलिताः भ्रमराः यस्मिन् तत् प्रचलितभ्रमरम् ।
अभि०-प्रभातसमयः सजातः, कमलानि विकसितानि, अतस्त्रव नेत्रकमलयोरुन्मीलनमपि समुचितम् , एवं च स्वस्वसौन्दर्यलक्ष्मीपरिग्रहणात् मध्ये प्रचलस्निग्धनीलकनीनिकं तव नेत्रं मध्ये भ्रमभ्रमरं कमलं च एकदेवोन्मीलितं विकसितं च सत् मनोज्ञेतेद्वे अपि उद्यः परस्परपूर्णसादृश्यमधिगच्छताम् ।
हिन्दी-इस समय, तुम्हारे बन्द नेत्रों में चिकनी तथा काली पुतलियाँ घूम रही हैं और कमलों के भीतर भ्रमर घूम रहे हैं, अतः यदि इस समय उठो तो अरुणोदय होने पर सौन्दर्यलक्ष्मी के ग्रहण से सुन्दर तथा एक ही समय खिले हुए तुम्हारे नेत्र और कमल दोनों परस्पर के सादृश्य को प्राप्त कर ले ॥६८
वृन्ताच्छलथं हरति पुष्पमनोकहानां
संवृज्यते सरसिजैररुणांशुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः
सौरभ्यमी सुरिव ते मुखमारुतस्य ॥६६॥ सञ्जीविनी--विभातवायुः प्रभातवायुः स्वाभाविक नैसर्गिक ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्य ताइक्सौगन्ध्यमित्यर्थः । परगुणेनान्यदीयगुणेन सांक्रामिकगन्धेनेत्यर्थः। ईप्सुराप्तुमिच्छुरिव 'आप्तप्य॒धामीत्' इतीकारादेशः । अनोकहानां वृक्षाणां श्लथं शिथिल पुष्पं वृन्तात्पुष्पबन्धनात् 'वृन्तं प्रसवबन्धनम्' इत्यमरः । हरत्यादत्ते । अरुणांशुभिन्नस्तरणिकिरणोदोधितैः सरसिजातः सर