________________
पञ्चमः सर्गः तं कर्णभूषणनिपीडितपीवरांसं
शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥६५॥ सब्जीविनी-कर्णभूषणाभ्यां निपीडिती पीवरौ पीनावंसौ यस्य तम् शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्दैन घर्षणेन कृशो विगतोऽङ्गरागो यस्य तं न स्वङ्गनासङ्गादिति भावः। प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा: वन्दिपुत्राः 'वैतालिका' इति वा पाठः 'वैतालिका बोधकराः' इत्यमरः वाग्भिः स्तुतिपाठरुषसि प्रावोषयन्मबोधयामासुः।
अन्वयः-कर्णभूषणनिपीडितपीवरांस, शय्योत्तरच्छदविमर्दकृशांगरागं, प्रथितप्रबोधं, तं, सवयसः उदारवाचः, सूतात्मजाः, वाग्भिः उपसि, प्राबोधयन् ।
वाच्य०-कर्णभूषणनिपीडितपीवरांसः शय्योत्तरच्छदविमर्दकृशांगरागः प्रथितप्रबोधः सः सवयोभिः उदारवाग्भिः सूतात्मजः वाग्भिः उपसि, प्राबोध्यत । ___ व्याख्या-कर्णयोः = श्रोत्रयोः । भूषणे = आभूषणे अलकारौ इत्यर्थः इति कर्णभूषणे, कर्णभूषणाभ्यां निपीडिती = विदिती, पीवरौ = स्थूलो, असौ = स्कन्धौ यस्य स कर्णभूषणनिपीडितपीवरांसः, तम् । शय्यायाः = खट्वायाः 'शयनं मंचपर्यंकपल्यंकाः खट्वया समाः' इत्यमरः । उत्तरच्छदः = उपर्यास्तरणवस्त्रमिति शय्योत्तरच्छदः तस्य विमर्दः = संघर्षणं तेन शय्योत्तरच्छदविमर्दन कृशः = विरल:, निर्मूष्ट इत्यर्थः, अंगरागः=कत्रिकाचन्दनादिलेपः यस्य सः शरोत्तरच्छदविमर्दकृशांगरागस्तम् । प्रथितः प्रकृष्टः प्रबोधः-शानं यस्य स तं प्रथितप्रबोधं प्रकृष्टज्ञानवन्तमित्यर्थः। तम् अजं । समानं तुल्यं । वयः= अवस्था येषां ते सवयसः। उदाराः = उत्कृष्टाः प्रगल्भाः, वाचः = गिरः येषान्ते उदारवाचः। सूताना = वन्दिनां स्तुतिपाठकानामित्यर्थः, आत्मजाः = पुत्रा इति सूतात्मजाः। वाग्भिः स्तुतिपातैः ! उषसि प्रत्यूपे। प्राबोधयन्= प्रबोधयामासुः।
समा०-कर्णयोः भूषणे, ताभ्यां निपीडितो पीवरौ अंसी यस्य सः, तं कर्णभूषणनिपीडितपीवरांसम् । शय्यायाः उत्तरच्छदः इति शय्योत्तरच्छदः, शय्योत्तरन्छदस्य विमर्दः इति शय्योत्तरच्छदविमर्दः, तेन कशा अंगरागः यस्य सः,