________________
६८
रघुवंश महाकाव्ये
'राजानं कामिनं चौरं प्रविशन्ति प्रजागराः' इति भावः । अभिमुखी शब्दो ङीषन्तश्च्व्यन्तो वा ।
अन्वयः -- तत्र स्वयंवरसमाहृतराजलोकं, कमनीयं, कन्याललाम, लिप्सोः, अजस्य, भावावबोध कलुषा, दयिता, इव, रात्रौ, निद्रा, चिरेण, नयना. भिसुखी, बभूव ।
वाच्य० - भावावबोधकलुषया दयितयेव निद्रया चिरेण नयनाभिमुख्या बभूवे । व्याख्या- तत्र= उपकार्यायां, नवीनराजभवने इत्यर्थः । राज्ञां लोकः राजलोकः । स्वयंवरार्थ = स्वयंवरणार्थे, समाहृतः = संगमितः, राजलोकः= नृपसमूहः येन तत् स्वयंवरसमाहृतराजलोकम् । कमनीयं = स्पृहणीयं कन्यासु = कुमारीषु, ललाम = श्रेष्ठमिति तत् कन्याललाम । लब्धुमिच्छति लिप्सति, लिप्सतीति लिप्सुस्तस्य लिपतो :- ठब्यु मिच्छो: । अजस्य = रघुपुत्रस्य । भावस्य = अभिप्रायस्य अवबोधः परिज्ञानमिति भावावबोधः, भावावबोधे कलुषा = असमर्था इति भावावबोधकलुषा, पुरुषाभिप्राय परिज्ञानेऽसमर्थां इत्यर्थः । दयिता = प्रिया | इव= यथा रात्रौ -निशायां रनन्यामित्यर्थः । 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । निद्रा - शयनं स्यान्निद्रा शयनं स्वापः' इत्यमरः । चिरेण = अतिविलम्बेन नयनयोः=नेत्रयोः । अभिमुखी = सम्मुखी । बभूव = जाता ।
1
समा० स्वयंवरार्थ समाहृतः राज्ञां लोको येन तत् स्वयंवरसमाहृतराजलोकम्, तत् । कन्यासु ललाम कन्याललाम, तत् । लब्धुभिच्छति लिप्सति । लिप्सतीति लिप्सुस्तस्य लिप्सोः । भावस्य अवबोधः, इति भावावन्रोवः, भावावबोधे कलुपा इति भावावबोधकलुषा । नयनयोः अभिमुखी इति नयनाभिमुखी ।
अभि० –— यस्य कन्यारत्नस्य प्राप्त्यर्थ देशान्तरेभ्यः स्वयंवरेऽनेके राजानः आमन्त्रिताः सन्तः समवेताः, तत्कन्यारत्नं मया कथं नु लभ्यमिति चिन्ताग्रस्ततथा अजः, रात्रौ तथैव चिरेण निद्रां लब्धवान् यथा पुरुषाभिप्रायपरिज्ञानेऽसमर्था काचित् रमणी चिरेण समागच्छति पुरुषपार्श्वे ।
हिन्दी- -उस नए राजभवन में, जिस कमनीय कन्यारत्न की प्राप्ति के लिये सैकड़ों राजा आये थे, उसे कैसे प्राप्त करें, इस चिन्ता के कारण अज की आँखों में रात को निद्रा उसी प्रकार देर से आयी जैसे कोई प्रेयसी प्रियहृदय का अभिप्राय न जानने से अपने प्रिय के पास विलम्ब से जाती है || ६४ ॥