________________
पञ्चमः सर्गः व्याख्या-रघो-दिलीपसूनोः, प्रतिनिधिः सदृशः, इति रघुप्रतिनिधिः रघुतुल्य इत्यर्थः । सः अजः । प्रणत: प्रणमद्भिः । तस्य भोजस्य । अधिकारे नियोगे नियुक्ताः, पुरुषाः सेवकजनाः, तैः अधिकारपुरुषैः । प्रदिष्टांनिर्दिष्टाम् । प्राग्द्वारस्य, वेदिः परिष्कृता भूमिः, तत्र विनिवेशितः स्थापितः, पूर्णकुम्भः= मांगलिककलशः यस्यां सा, तां प्रारद्वारवेदिविनिवेशितपूर्णकुम्भाम् । रम्या-रमणीयां मनोहरामित्यर्थः। नवा-नूतना चासो उपकार्याइराजभवनमिति नवोपकार्या तां नवोपकार्याम्, मदनः कामः बालस्य भावो बाल्यं तस्मात् बाल्यात्शैशवात् , पराम् अनन्तरां, दशां-यौवनम्, इव-यथा, अध्युवास=अधिष्ठितवान् । तत्र निवासं कृतवानित्यर्थः ।
समा०-घोः प्रतिनिधिरिति रघुप्रतिनिधिः। अधिकारस्य पुरुषा इति अधिकारपुरुषास्तरधिकारपुरुषैः। प्रारद्वारस्य वेदिरिति प्राग्द्वारवेदिस्तत्र विनिवेशितः पूर्णः कुम्भः यस्यां सा प्रारदारवेदिविनिवेशितपूर्णकुम्भा, ताम् । नवा चासौ उपकार्या नवोपकार्या, तां नवोपकार्याम् ।
अभि०-रघुतुल्योऽजः, विदर्भनरेशनियुक्तैरागन्तुकजनसेवाधिकृतैः पुरुषः, निर्दिष्टे, प्रथमद्वारवेद्यां स्थापितमांगलिकघटः मुशोभिते रम्ये राजभवने तथोषितवान् यथा स्मरः शैशवात्परे यौवने निवसति ।
हिन्दी-रघु का प्रतिनिधि अज, भोजराज के सेवकों से बतलाये हुए उस मनोहर राजभवन में गया जिसके द्वार की चौकियों पर जल से पूर्ण मांगलिक कलश रखे हुए थे। उस राजभवन में अब इस प्रकार रहने लगा मानो कामदेव बाल्यावस्था को बिताकर जवानी में रहने लगा हो ॥६३॥
तत्र स्वयंवरसमाहृतराजलोकं
कन्याललाम कमनीयमजस्य लिप्सोः। भावावबोधकलुषा दयितेव रात्रौ
निद्रा चिरेण नयनाभिमुखी बभूव ६४॥ सञ्जीविनी-तत्रोपकार्यायां स्वयंवरनिमित्तं समाहृतः संमेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम् 'ललामोऽस्त्री ललामापि प्रभावे पुरुषे धजे । श्रेष्ठभूषाशुण्डशृङ्गपुच्छचिह्नाश्वलिङ्गिषु' इति यादवः । लिप्सोर्लब्धुमिच्छोः। लभेः सन्नन्तादुप्रत्ययः । अजस्य मावावबोघे पुरुषस्वाभिप्रायपरिज्ञाने कलुषाऽसमर्था दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ।