________________
६६
खुवंशमहाकाव्ये नरेशम् । आगन्तुम् अभ्यागतं प्राघुणिकमित्यर्थः 'आवेशिक आगन्तुरतिथिनां गृहागते । प्राघूर्णिकः, प्राघुणकः' इत्यमरः । अजं = रघुपुत्रम् । गृहस्य गेहस्य । ईशः स्वामी, तं गृहेशं 'गृहं गेहोदवसित वेश्म सद्म निकेतनम्' इत्यमरः । मेने-ज्ञातवान् ।
अमि०-विदर्भनरेशो भोजः सेवकवत्, अग्रे गच्छन् नम्रः सन् अजं पुराभ्यन्तरे आनीय, अजाय समर्पितसर्वसम्पत्कः तथा तत्सेवां चकार यथा तत्रस्थः जनः प्राघुणिकमजं गृहपति विदर्भराजञ्चाभ्यागतममस्त ।
हिन्दी-सेवा भाव से आगे २ मार्ग बतलाते, विनीत, राजा भोज, अज को नगर में ले गये और प्रेम से अपना सब कुछ अज को भेंट करके, नम्र भाव से अज की ऐसी सेवा की, कि स्वयंवर में एकत्रित जन समुदाय यही समझने लगा कि अज ही इस घर के स्वामी हैं, और राजा भोज अतिथि हैं ॥२॥ तस्याधिकारपुरुः प्रणतः प्रदिष्टां
प्रारद्वारवेदिविनिवेशितपूर्णकुम्भाम् । रम्यां रघुप्रतिनिधिः स नवोपकार्यां
बाल्यात्परामिव दशां मदनोऽध्युवास ॥६३॥ संजीविनी-रघुप्रतिनिधी रघुकल्पः रघुतुल्य इत्यर्थः । उक्तं च दण्डिना साह. श्यवाचकप्रस्तावे 'कल्पदेशीयदेश्यादिप्रख्यप्रतिनिधी अपि' इति । सोऽजः प्रणतैनमस्कृतवद्भिः, कर्तरि तः। तस्य भोजस्याधिकारी नियोगस्तस्य पुरुषैः अधिकृतरित्यर्थः। प्रदिष्टां निर्दिष्टां प्रारद्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम् , स्थापितमङ्गलकलशामित्यर्थः । रम्यां रमणीयां नवोपकार्यो नूतनं राजभवनम् । 'उपकार्या राजसमन्युपचारचितेऽन्यवत्' इति विश्वः । मदनो बाल्यात्परां शैशवादनन्तरां दशामिव यौवनमिवेत्यर्थः । अध्युवासाधिष्ठितवान् तत्रोषितवानित्यर्थः । 'उपान्वध्याङ् वसः' इति कर्मत्वम् ॥६३॥
अन्वयः-घुप्रतिनिधिः, सः, प्रणतः, तस्य. अधिकारपुरुषैः, प्रदिष्टां, प्रारद्वारवेदिविनिवेशितपूर्णकुम्भां, रम्या, नवोपकायो, मदनः बाल्यात् , रां, दशाम् , इव, अध्युवास।
वाच्य०-रघुप्रतिनिधिना तेन तस्याधिकारपुरुषैः प्रदिष्टा, प्रारदारवेदिविनिवेशितपूर्णकुम्भा रम्या नवोपकार्या, मदनेन बाल्यात् परा दशा इव अध्यूषे ।