________________
पञ्चमः सर्गः
६५
वीचिः' इत्यमरः । चन्द्रं हिमांशुम् । 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः' इत्यमरः । प्रत्युबगाम-प्रत्युद्गतवान् ।
समा०-नगरस्य उपकण्ठं, तस्मिन् नगरोपकण्ठे। तस्यागमस्तदागमः, तेन आरूढः गुरुः प्रहों यस्य स तदागमारूढगुरुप्रहर्षः। कथकैशिकानामिन्द्र इति क्रयकैशिकेन्द्रः । प्रवृदाः ऊर्मयः यस्मिन् स प्रवृदोमिः । ऊर्मीणां माला अस्यास्तीति ऊर्मिमाली।
अभि०-निजनगरसमीपे वर्तमानमजं श्रुत्वा विदर्भाधिपतिः, कुमारागमनाद् दृष्यन् सन् तद्दर्शनौत्सुक्येन तथैव स्वागतार्थ तं प्रत्युज्जगाम, यथा पूर्णचन्द्रोदयं वीक्ष्य तदालिङ्गनार्थप्रवृद्धोर्मिः सन् समुद्रः प्रत्युद्गच्छति।।
हिन्दी-नगर के समीप में ठहरे हुए अज का समाचार सुनकर और अज के आगमन से अतीव आनन्दित महाराज विदर्भनरेश ने वहाँ जाकर वैसे ही अज का स्वागत किया, जैसे समुद्र, अपनी उन्नत तरङ्गों से पूर्णचन्द्र का स्वागत करता है ॥६॥
प्रवेश्य चैनं पुरमप्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥६२।। सञ्जीविनी-एनमजमग्रयायी सेवाधर्मेण पुरो गच्छन्नित्यर्थः, नीचैनम्रः पुरं प्रवेश्य प्रवेश कारयित्वा प्रीत्याऽर्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान् यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भ भोजमागन्तुं प्राघुणिक मेने, अजं गृहेश गृहपति मेने ।। ६२ ॥
अन्वयः-एनम् , अग्रयायी, नीचैः, पुरं, प्रवेश्य, 'प्रीत्या' अर्पितःत्रीः तथा उपाचरत् , यथा, तत्र, समेतः, जनः वैदर्भम् , आगन्तुम् , अजं, गृहेशं मेने ।
वाच्य०-एष अर्पितश्रियो पाचर्यत । जनेन वैदर्भः आगन्तुः मेने।
व्याख्या-एनम् = अजम् । अग्रे = पुरः, याति = गच्छति तच्छील इति अग्रयायी सेवाधर्मेण मार्ग प्रदर्शयन् पुरो गच्छन्, विदर्भनरेश इत्यर्थः । नीचैः= विनीतः "सन्” पुरं नगरं प्रवेश्य प्रवेश कारयित्वा । "प्रीत्या" अर्पितासमर्पिता, श्री: लक्ष्मीः, येन सः अर्पितश्रीः। तथा तेन प्रकारेण । उपाचरत् उपचरितवान् सेवां चकारेत्यर्थः । यथा येन प्रकारेण । तत्र-तस्मिन् नगरे । समेतः मिलितः। जनः लोकः 'लोकस्तु भुवने ।जने' इत्यमरः, वैदर्भ-विदर्भ