________________
रघुवंशमहाकाव्ये
अजप्रियंवदयोः 'मध्ये' एकः प्रियंवदः, चैत्ररथस्य-कुबेरोद्यानस्य । प्रदेशाः= भागाः, तान् चैत्ररथप्रदेशान् । ययौ जगाम । अपर:=रघुपुत्रोऽजः । सुराज्ञो भावः कर्म वा सौराज्यं तेन सौराज्येन-सुनृपतित्वेन रम्याः मनोहराः तान् सौराज्यरम्यान् विदर्भान् कथकैशिकान् । ययौ जगाम । ___ समा०-देवस्य योगः दैवयोगस्तस्मात् दैवयोगात् । अचिंत्यो हेतुर्यस्य तत् अचिन्त्यहेतु। चैत्ररथस्य प्रदेशास्तान् चैत्ररथप्रदेशान् । सुराज्ञो भावः कर्म वा सौराज्यं, सौराज्येन रम्यास्तान सौराज्यरम्यान् ।।
अभि०-पूर्वोक्तप्रकारेण विधिवशात् मित्रत्वं प्राप्तयोः, अजप्रियंवदयोमध्ये प्रियंवदः कुबेरोधानं प्रति अजश्च विदर्भदेशम्प्रति गतः ।
हिन्दी---इस प्रकार देवसंयोग से अकल्पनीय मित्रता को प्राप्त हुए, उन दोनों में से प्रियंवद तो चैत्ररथ नामक कुबेर के बगीचे की ओर और कुमार अज अच्छे शासन के कारण रमणीय विदर्भ देश की ओर चला गया ॥६०॥
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । प्रत्युजगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोमिरिवोर्मिमाली ॥६१।।
सञ्जीविनी---नगरस्योपकण्ठे समीपे तस्थिवांसं स्थितं तमजं तस्याजस्यागमेनागमनेनारूढ उत्पन्नो गुरुः प्रहों यस्य स यकैशिकेन्द्रो विदर्भराजः प्रवृद्धोमिरूमिमाली समुद्रश्चन्द्रमिव प्रत्युज्जगाम ॥६॥ __अन्वयः-नगरोपकण्ठे, तस्थिवासं, तं, तदागमारूढगुरुप्रहर्षः, कथकैशिकेन्द्रः प्रवृद्धोमिः, ऊर्मिमाली, चन्द्रम् , इव, प्रत्युजगाम ।
वाच्य०-तस्थिवान् स तदागमारूढगुरुमहर्षेण कथकैशिकेन्द्रेण, प्रवृद्धोर्मिणा, ऊर्मिमालिना चन्द्र इव प्रत्युजग्मे ।
व्याख्या--नगरस्य भोजस्य राजधान्याः, उपकण्ठं-समीपमिति नगरोपकण्ठम्, तस्मिन् नगरोपकण्ठे । तस्थिवांसं स्थितं वर्तमानमित्यर्थः तम् = अजम् तस्य अजस्य, आगमः आगमनं, तेन आरूढः उत्पन्नः, गुरुः महान् , प्रहर्षः अनन्दः यस्य स तदागमास्टगुरुप्रहर्षः। कथकैशिकानां विदर्भाणाम्, इन्द्र.- स्वामी इति कथकैशिकेन्द्रः भोजराज इत्यर्थः। प्रकर्षण वृद्धाः इति प्रवृद्धाः समेधिताः, ऊर्मयः तरङ्गाः यस्मिन् स प्रवृद्धोमिः। ऊर्मीणांतरङ्गाणां माला-पंक्तिरस्यास्तीति ऊर्मिमाली समुद्र इत्यर्थः 'भंगस्तरंग ऊर्मिर्वा स्त्रियां