________________
पंचमः सर्गः
६३
तेन प्रकारेण यथा भवता कथ्येत तथैव मया करिष्यते इत्यर्थः । इति = इत्थम् 'कथयित्वा ' । सोमः = सोमवंशः उद्भवः = उत्पत्तिकारणं यस्याः सा सोमोद्भवा, तस्याः सोमोद्भवायाः = नर्मदाय इत्यर्थः । पवित्रं = शुद्धं पयः = जलम्, उपस्पृश्य = आचम्य । उदङ् = उदीचीं, प्रति मुखम् आननं यस्य स उदङ्मुखः 'सन्' निगृहीतः निवर्तितः, शापः = आक्रोशः यस्यासौ निगृहीतशापः तस्मात् निगृह तशापात् । तस्मात् = प्रियंवदात् । अस्त्रस्य = आयुधस्य, मंत्रः = प्रयोगसंहाररहस्यमिति तमस्त्रमन्त्रम् | जग्राह = गृहीतवान् ।
समा०
० - ना सोमः इव इति नृसोमः । सोम उद्भवः यस्याः सा सोमोद्भवा तस्याः सोमोद्भवायाः । उदङ् मुखं यस्य स उदङ्मुखः । निगृहीतः शापो यस्यासौ तस्मात् निगृहीतशापात् । अस्त्रस्य मंत्रस्तमस्त्रमंत्रम् |
अभि० – नरश्रेष्ठोऽजः प्रियंवदस्य प्रार्थनां स्वीकृत्य, नर्मदाजलमाचम्य उत्तराभिमुखो भूत्वा निवारितशापात् प्रियंवदात् समंत्रं सरहस्यमस्त्रं गृहीतवान् । हिन्दी - चन्द्रमा के समान सुन्दर और अस्त्रविद्या के पण्डित अज ने प्रियंवद की बात को स्वीकार कर लिया और चन्द्रमा से उत्पन्न हुई नर्मदा के पवित्र जल का आचमन करके तथा उत्तराभिमुख होकर शाप से मुक्त हुए उस गन्धर्व से मन्त्र सहित अस्त्र को ले लिया, अर्थात् सीख लिया || ५६ ॥
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
-
एको ययौ चैत्ररथप्रदेशान्सौ राज्यरम्यानपरो विदर्भान् ||६० || सञ्जीविनी — एवमध्वनि मार्गे दैवयोगाद्दैववशादचिन्त्य हेत्वनिर्धार्यहेतुकं सख्यं सखित्वम् 'सख्य्र्यः' इति यप्रत्ययः । आसेदुषोः प्राप्तवतोस्तयोर्मध्य एको गन्धर्वश्चैत्ररथस्य प्रदेशान् 'अस्योद्यानं चैत्ररथम्' इत्यमरः । अपरोऽजः सौराज्येन राजन्वत्तया रम्यान्विदर्भदेशान्ययौ || ६०||
अन्वयः - एवम्, अध्वनि, दैवयोगात्, अचिन्त्यहेतु, सख्यम्, आसेदुषोः, तयोः, एकः, चैत्ररथप्रदेशान्, अपरः, सौराज्यरम्यान्, विदर्भान् ययौ ।
वाच्य० - तयोरेकेन चैत्ररथप्रदेशाः अपरेण सौराज्यरम्या विदर्भा ययिरे । व्याख्या - एवं = पूर्वोक्तप्रकारेण अध्वनि = मार्गे देवस्य = विधेः योगः संबंधः वशः इति दैवयोगस्तस्मात् दैवयोगात् । अचिंत्यः = अतः, हेतुः = कारणं यस्य तत् अचिन्त्य हेतु । सख्युर्भावः सख्यं = मित्रताम् । आसेदुषोः = प्राप्तवतोः । तयोः =