________________
रघुवंशमहाकाव्ये
६२
प्रहरन् = प्रहारं
कुर्वन् । अपि ।
मुहूर्त = क्षणमात्रं
स्यात्' इत्यमरः ।
=
हस्ति शरीरिणमित्यर्थः । दयायां = कृपायां परः = लग्नः इति दयापरः 'कृपा दयाऽनुकम्पा अनुकम्पान्वित इत्यर्थः । अभूः = आसीः । तस्मात् कारणात् । उपच्छन्दयति प्रार्थयमाने मयि - प्रियंवदे । त्वया=अजेन । रूक्षस्य भावः रौक्ष्यम् । प्रतिषेधः : अस्वीकार एत्र रौक्ष्यं = पारुष्यमिति प्रतिषेधरौक्ष्यम् । न = नहि प्रयोज्यं = कर्तव्यम् । स्वयाऽस्त्रमिदमवश्यं स्वीकर्तव्यमिति भावः ।
1
समा० - दयायां पर इति दयापरः । रूक्षस्य भावः कर्म वा रौक्ष्यं, प्रतिषेध एव रौक्ष्यमिति प्रतिषेधरौक्ष्यम् । उपच्छन्दयतीति उपच्छन्दयन्, तस्मिन् उपच्छन्दयति ।
अभि०० - भवता मे मस्तकभेदनं बाणेन कृतमिति हेतोः किचिन्मात्रमपि लज्जा न कार्या, यतो हि त्वया बाणप्रहारं कुर्वतापि मयि दया कृता । अतः प्रार्थयमाने मयि गन्धर्वास्त्रास्वीकरणरूपा रूक्षता न कर्तव्या ।
हिन्दी - आप प्रहार करने के कारण लज्जित होकर मुझसे संकोच न करें । क्योंकि प्रहार करते हुए भी क्षणभर के लिये आप दयालु ही रहे, अतः मैं प्रार्थना करता हूँ कि आप इस अस्त्र को अस्वीकार करके रुखेपन का व्यवहार न करें || ५८||
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः । उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥ ५६ ॥ सञ्जीवनी- - ना सोमश्चन्द्र इव नृसोमः उपमितसमासः । 'सोम ओषधिचन्द्रयोः ।' इति शाश्वतः । पुरुषश्रेष्ठ इत्यर्थः अस्त्रविदस्त्रज्ञः सोऽजस्तथेति सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः 'रेवातु नर्मदा सोमोद्भवा मेकलकन्यका' इत्यमरः । पवित्र पयः उपस्पृश्य पीत्वा आचम्येत्यर्थः । उदङ्मुखः सन्निगृहीतशापान्निवर्तितशापात् उपकृतादित्यर्थः । तस्मात्प्रियंवदादस्त्रमन्त्रं जग्राह ॥ ५६ ॥
अन्वयः -- नृसोमः, अस्त्रवित्, सः तथा, इति सोमोद्भवायाः, पवित्र पयः, उपस्पृश्य, उदङ्मुखः 'सन्' निगृहीतशापात् अस्त्रमंत्र, जग्राह ।
वाच्य०- - नृसोमेनास्त्रविदा तेन उदङ्मुखेन 'लता' अस्त्रमंत्रो जगृहे । व्याख्या - ना = नरः, सोमः = चन्द्र इव इति नृसोमः = नरश्रेष्ठ इत्यर्थः । अस्त्रम्=आयुधं वेत्ति = जानातीति अस्त्रवित् सः = पूर्वोक्तः, अजः तथा =