________________
पञ्चमः सर्गः 'मन्त्रो देवादिसावने । वेदांशे गुप्तवादे च, इति हैमः। गन्धर्वो देवताऽस्येति गान्धर्वम् गन्धर्वदेवताकम् । समोह्यतेऽनेनेति तत् संमोहनं संमोहननामकम् । मम प्रियंवदस्य । अस्त्रम् आयुधम् । आदरस्त्र=स्वीकुरु । मद्दत्तं गृहाणेत्यर्थः । यतः अस्त्रात्, प्रयोक्तुः प्रयोगकर्तुः । अरीणां शत्रूणां, हिंसा =प्राणवियोगः मरणमित्यर्थ इति अरिहिंसा, न=नहि, विजयः जयः, च हस्ते करें 'भवति' विजयलाभो हस्ततलगतो भवतीत्यर्थः ।
समा०-प्रयोगश्च संहारश्चेति प्रयोगसंहारौ, तयोः विभक्तः मंत्रो यस्य तत् प्रयोगसंहारविभक्तमन्त्रम् । सम्यक् मोह्यतेऽनेनेति संमोहनम् । अरीणां हिंसा इति अरिहिंसा । समानं ख्यायते जनैरिति सखा, तत्सबुदो हे सखे । . ___अभि. हे मित्र अज ! संमोहननामकं गन्धर्वदेवताकं ममायुधं त्वं स्वीकुरु इदं च प्रयोगसहारयोविभिन्नमंत्रकमस्ति, अनेन चास्त्रेण शत्रुमरणं विनैव केवलं संमोहनात् युद्धे विजयः हस्तगतो भवतीति विशेषः ।।
हिन्दी- हे अज ! आप चलाने तथा रोकने के पृथक् २ मत्रवाले संमोहन नाम के मेरे इस गन्धर्वास्त्र को ले लीजिये । इसमें यह विशेषता है कि इससे आप के शत्रु का प्राण भी नहीं निकलेगा और शत्रु के मूच्छित होने से विजय लाभ भी अनायास हो जायगा ॥ ५७ ॥
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभः प्रहरन्नपि त्वम् । . तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ ५८॥
सञ्जीविनी–किं च मां प्रति ह्रिया प्रहारनिमित्तयाऽलम् । कुतः । यद्यतो हेतोस्त्वं मां प्रहरन्नपि मुहूर्त दयापरः कृपालुरभः तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया प्रतिषेधः परिहारः स एव रौक्ष्यं पारुष्यम् तन्न प्रयोज्यं न कर्तव्यम् ॥
अन्वयः-मां, प्रति, हिया, अलं, 'कुतः' यत्, त्वं प्रहरन् , अपि महूर्त, दयापरः, अभूः, तस्मात् , उपच्छन्दयति, मयि, त्वया, प्रतिषेधरौक्ष्यं, न प्रयोज्यम् ।
वाच्य०-यत् त्वया प्रहरता अपि दयापरेण अभावि तस्मात् मयि वं प्रतिषेधरीक्ष्यं न प्रयुधि ।
व्याख्या-मां-प्रियंवदं। प्रति-उद्दिश्य । ह्रिया लज्जया मन्दादं ह्रीस्त्रपा ब्रीडा लज्जा साऽपत्रपा' इत्यमरः । प्रहारजनितयेत्यर्थः। अलं-निरर्थकं व्यर्थमिति यावत् 'कुत इत्यत आहे' यत् = यस्मात् कारणात् । त्वं = अजः। मां-प्रियंवदं