________________
रघुवंशमहाकाव्ये आक्रोशात् , सम्मोचितः मुक्ति प्रापितः। भवतः अजस्य । प्रतिप्रियं-प्रत्युपकार न=नहि कुर्यो सम्पादयेयं चेत् यदि 'तर्हि' मे=मम प्रियंवदस्येत्यर्थः । स्वस्य: निजस्य, पदं स्थानं, तस्य उपलब्धिःप्राप्तिः इति स्वपदोपलब्धिः । वृथा व्यर्था स्यात् भवेद् । हि = निश्चये। ___ समा०-चिरं प्रार्थितं दर्शनं यस्य सः, तेन चिरप्रार्थितदर्शनेन । सत्त्वमस्यास्तीति स वान , तेन सत्त्ववता । सम्यङ मोचितः सम्मोचितः। स्वस्य पदं स्वपदं, स्वपदस्य उपलब्धिः स्वपदोपलब्धिः।
अभि०-बहोः कालात् प्रार्थितदर्शनेन बलवता भवता मे गजशरीरतो मोक्षः कारितः। अतो यद्यहं ते प्रत्युपकारं न कुयों तर्हि मे गधर्वलोकप्राप्तिः गजयोनितो मोक्षश्च व्यर्थः भवेदिति प्रत्युपकारं चिकीपुरस्मि ।
हिन्दी-मतंग ऋषि के शाप से गजयोनि को प्राप्त होकर मैं बहुत दिनों से आपके दर्शन की प्रतीक्षा कर रहा था, सौभाग्य से आपने मुझे शाप से छुड़ा दिया, अब यदि इस उपकार के बदले में मैंने आपका कोई प्रत्युपकार न किया तो मेरा यह शरीर पाना तथा गन्धर्वलोक में जाना व्यर्थ ही होगा ।। ५६ ।।
संमोहनं नाम सखे ममात्र प्रयोगसंहारविभक्तमन्त्रम् । गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥ ५७ ॥
सञ्जीविनी-हे सखे ! सखिशब्देन समप्राणतोक्ता । यथोक्तम्- 'अत्यागसहनो बन्धुः सदेवानुमतः सुहृत् । एकक्रियं भवेन्मित्रं समप्राणः सखा मतः' इति । प्रयोगसंहारयोविभक्तमन्त्रं गान्धर्व गन्धर्वले वताकम् । संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादस्व गृहाण । यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोऽरिहिंसा न च, विजयश्च हस्ते । हस्तगतो विजयो भवतीत्यर्थः ।। ५७ ।।
अन्वयः-सखे प्रयोगसंहारविभक्तमन्त्रं, गान्धर्व, सम्मोहनं, नाम, मम, अस्त्रम् आदत्स्व, यतः प्रयोक्तुः अरिहिंसा, न च, विजयः च, हस्ते, 'भवतीति शेषः' । __वाच्य-सखे मम मम अस्त्रम् आदीयतां, यतः अरिहिंसया न च 'भूयते' विजयेन च हस्ते 'भयते'।
व्याख्या-हे सखे सुहृत् 'अथ मित्रं सखा सुहृत्' इत्यमरः । प्रयोगः अस्त्रप्रक्षेपश्च, संहारः संहरणञ्चेति प्रयोगसंहारौ, तयोः प्रयोगसंहारयोः, विभक्तः विभिन्नः, मंत्रः = देवादिसाधनात्मकः यस्य तत् प्रयोगसंहारविभत्त.मन्त्रम् ,