________________
पञ्चमः सर्गः
५६
कम्, अयः=लोहः, मुखे - 'लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी' इत्यमरः, फलके यस्य सः तेन अयोमुखेन शरेण = चाणेन, भेत्स्यति = विदारयिष्यति । तदा = तस्मिन् काले । स्वेन=आत्मीयेन । वपुषः = शरीरस्य, महिमा = महत्त्वम् । सामर्थ्यमिस्यर्थः । तेन वपुर्महिम्ना । पुनः भूयः । संयोक्ष्यसे संगंस्य से, शरीरं प्राप्स्यसीत्यर्थः । स्वमिति शेषः, इति = इत्थं, स= पूर्वोक्तः, तपसां निधिः = निधानमिति तपोनिधिः, माम् = प्रियंत्रदम् अवोचत् = उक्तवान् ।
समा० – इक्ष्वाकोः वंश इति इक्ष्वाकुवंशः, इक्ष्वाकुवंशः प्रभवो यस्य स इक्ष्वाकुवंशप्रभवः । अयो मुखे यस्य सः, तेन अयोमुखेन । वपुषो महिमा तेन वपुर्महिम्ना । तपसां निधिरिति तपोनिधिः ।
अभि - विनम्रस्य मे प्रार्थनया प्रसन्नो मतंगमुनिः सूर्यवंश्यो रघुपुत्रोऽजो यदा लोहशरेण तव मस्तकं भेत्स्यति तदा त्वं पुनः गन्धर्वरूपं प्राप्स्यसीति मामकथयत् ।
हिन्दी - मेरी प्रार्थना से प्रसन्न होकर उस तपस्वी मतंग ऋषि ने मुझसे कहा कि इक्ष्वाकुराजर्षि के कुल में उत्पन्न अज जब तुम्हारे मस्तक को लोहे के फलवाले बाण से भेदन करेगा, तब तुम फिर से अपना असली शरीर प्राप्त करोगे || ५५ || संमोचितः सत्त्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः || ५६ ॥ सञ्जीविनी - चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता स्वयाऽहं शापात्संमोचितः मोक्षं प्रापितः । भवतः प्रतिप्रियं प्रत्युपकारं न कुर्या चेन्मे स्वपदो - पलब्धिः स्वस्थानप्राप्तिः 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । वृथा स्याद्धि । तदुक्तम् -- 'प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्' इति ॥ ५६ ॥
अन्वयः - चिरप्राथैतदर्शनेन सत्त्वत्रता, स्वया, अहं, शापात् सम्मोचितः भवतः प्रतिप्रियं न कुर्यो, चेत्, मे स्वपदोपलब्धिः वृथा स्यात् ।
वाच्य० - चिरप्रार्थितदर्शनः सत्त्ववांस्त्वं मां शापात् संमोचितवान् । भवतः प्रतिप्रियं न मया क्रियेत चेन्मे स्वपदोपलब्ध्या वृथा भूयेत हि ।
व्याख्या - चिरं = बहुकालात् प्रार्थितं = वाञ्छितमभिलषितमित्यर्थः । दर्शनम् =अवलोकनं यस्य सः, तेन चिरप्रार्थितदर्शनेन सत्त्वं = बलमस्ति अस्यासौ सत्त्रवान्, तेन सत्त्ववता | स्वया = भवता अजेनेत्यर्थः । अहं प्रियंवदः शापात्=