________________
पूद
रघुवंशमहाकाव्ये आतपः-धर्मश्चेति अग्न्यातपो, तयोः सम्प्रयोगः-संयोगः इति अग्न्यातप. सम्प्रयोगस्तस्मात् तथोक्तम् ‘जायते' इति शेषः । नतु स्वभावेन जलस्योष्णतेति भावः। यत् प्रसिद्धं । शीतस्य भावः शैत्यं शीतलत्वम् । सा प्रसिद्धा शैत्यरूपा । प्रकृतिः स्वभावः, अस्लीति शेषः ।
समा०-महांश्चासौ ऋषिरिति महर्षिः। मृदोर्भावः मृदुता, तो मृदुताम् । उष्णस्य भाव उष्णत्वम्, अग्निश्वातपश्चेति अग्न्यातपो तयोः संप्रयोग इति अग्न्यातपसंप्रोगस्तस्मात् अग्न्यातपसम्प्रयोगात् । शीतस्य भावः शैत्यम् ।
अभि०-मदहंकरात् कुपितः स महर्षिः बहु वधप्रार्थनया प्रणामाजलिना च पश्चात् शान्ति गतः मयि कृपामकरोत् । यतो हि अग्निसूर्यसंयोगादेव जलस्योष्णता भवति शीतलत्वं तु तस्य स्वभावः यथा, तथैव महर्षीणां शान्तिरेख स्वभावः, क्रोधस्तु कारणवशादेव !
हिन्दी-मेरे बहुत अनुनय-विनय करने पर ( हाथ पाँव जोड़ने पर ) वह महर्षि शान्त हो गए, क्योंकि जल तो अग्नि या सूर्य की गर्मी पाकर गर्म होता है और उसका अपना स्वभाव तो शीतल होता है, ऐसे ही महर्षियों का स्वभाव तो शान्त ही होता है, क्रोध तो किसी बाहरी कारण से होता है ॥५४॥
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यले स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ।।५५।।
सञ्जीविनी-इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहारेण शरेण भेत्स्यति विदारयिष्यति तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे संगस्यस इति स तपोनिधिर्मामवोचत् ॥५५॥
अन्वयः-इश्वाकुवंशप्रभवः अजः, यदा, ते, कुम्भम्, अयोमुखेन, शरेण, भेत्स्यति, तदा, स्वेट, वपुर्महिम्ना, पुनः, संयोक्ष्यसे, इति, सः, तपोनिधिः, माम्, अवोचत्।
वाच्य०-इक्ष्वाकुवंशप्रभवेणाजेन कुम्भो मेत्स्यते तदा स्वेन वपुर्महिम्ना पुनस्त्वया संयोश्यते इति तेन तपोनिधिनाऽहमयोचिषि । __ व्याख्या–३वाकोः इक्ष्वाकुराजर्षेः, वंशः कुलम् इति इक्ष्वाकुवंशः, इक्ष्वाकुवंशः प्रभवः कारणं यस्येति, इक्ष्वाकुवंशप्रभवः । अजः अजानामा रघुपुत्रः, यदा-यस्मिन् काले ! ते तव-इस्तिशरीरस्य प्रियंवदस्येत्यर्थः । कुम्भ मस्त