________________
पञ्चमः सर्गः =शरीरात्, बातम् उत्पनमिति तनूजं-पुत्रम् । प्रियंवदतीति प्रियंवदस्तं प्रियंवदं प्रियंवदनामानम् । अवेहि-जानीहि, विद्धि ।
समा०-अवलेपः मूलं यस्य सः, तस्मात् अवलेपमूलात् । मतंगस्य शापस्तस्मात् मतंगशापात् । मतङ्गाजातः मतंगजः, मतंगजस्य भावः मतंगजत्वम् , तत् । प्रियं दर्शनं यस्य स प्रियदर्शनस्तस्य प्रियदर्शनस्य । गन्धर्वाणां पतिः गन्धर्वपतिस्तस्य गन्धर्वपतेः। तनोः जातः तनूजस्तं तनूजम् । प्रियंवदतीति प्रियंवदस्तं प्रियंवदम् ।
अमि०-मदहंकारेण प्राप्तात् मतंगमहर्षिशापात् गजभावं गतं प्रियदनिनामकगन्धर्वराजस्य पुत्रं प्रियंवदनामकं मां विद्धि।
हिन्दी-एक बार मेरे अहंकार के कारण महर्षि मतङ्ग ने मुझे शाप दे दिया था, मैं हार्थी हो गया, "वस्तुतः” मैं गन्धर्वो के राजा प्रियदर्शन का लड़का प्रियंवद हूँ, ऐसा जानो ॥५३॥
स चानुनीतः प्रणतेन पश्चान्मयो महर्षिमृदुतामगच्छत् । उष्णत्वमग्न्यातपसंप्रयोगाच्छेत्यं हि यत्सा प्रकृतिजलस्य ।।५४।
सञ्जीविनी-स महर्षिश्च प्रणतेन मयाऽनुनीतः सन्पश्चान्मृदुतां शान्तिमगच्छत् । तथाहि । जलस्योष्णत्वमग्नेरातपस्य वा संप्रयोगात्संपर्कात् न तु प्रकृत्यो. ष्णत्वम् । यच्छैत्यं सा प्रकृतिः स्वभावः । विधेयप्राधान्यात्सेति स्त्रीलिङ्गनिर्देशः । महर्षीणां शान्तिरेव स्वभावो न क्रोष इत्यर्थः ॥५४॥
अन्वयः-सः महर्षिः, च, प्रणतेन, मया, अनुनीतः, "सन्” पश्चात् , मृदुताम् अगच्छत्, हि, जलस्य, उष्णस्वम् , अग्न्यातपसंप्रयोगात्, यत्, शैत्यं,सा, प्रकृतिः।
वाच्य-तेन महर्षिणा च मयाऽनुनीतेन "सता" पश्चात् मृदुताऽगम्यत, हि जलस्य उष्णत्वेन अग्न्यातपसम्प्रयोगात् “भूयते" येन शैत्येन "भूयते" तया प्रकृत्या "भूयते”।
व्याख्या-सः पूर्वोक्तः महांश्चासौ ऋषिः महर्षिः मतंगमुनिः। चः= समुच्चये, प्रणतेन-चरणयोर्निपत्य प्रणमता, मया प्रियंवदेन । अनुनीतः= प्रार्थितः “सन्" पश्चात् प्रार्थनानन्तरं मृदो वः मृदुता, तां मृदुतांकोमलतां शान्तिमित्यर्थः, अगच्छत् अव्रजत् । हि-यतः, जलस्य सलिलस्य 'आपः स्त्री भूम्नि वारि सलिलं कमलं जलम्' इत्यमरः । उष्णस्य भाव उग्णत्वं तप्तत्वम् 'उष्ण ऊष्मागमस्तपः' इत्यमरः । अशीतलत्वमित्यर्थः । अग्निः बहिश्च