________________
५६
रघुवंशमहाकाव्ये द्रुमात् उत्थानि इति कल्पद्रुमोरयानि, तैः कल्पद्रुमोत्यैः दशनानाम् प्रभाः इति दशनप्रमाः, ताभिः दशनप्रमाभिः । ताराणां हाराः इति तारहाराः, उरसः स्थलम् इति उर:स्थलम , उरस्थले तारहाराः इति उरःस्थल तारहाराः, संवर्धिताः उर:स्थलतारहाराः येन सः संबधितोर:स्थललारहारः। प्रशस्ता वाक् अस्य अस्ति इति वामी।
अभिः - अनन्तरं च तेन वाक्पटुना स्वप्रभावाकल्पवृक्षकुसुमान्यानीयाजोपरि तानि वर्षता वक्षःस्थले स्थितं हार स्वकीयदन्तकान्तिभिर्वर्धयता कथितम् ।।
हिन्दी-तब उसने अपने प्रभाव से प्राप्त किये कल्पवृक्ष के पुध्यों की, अज के ऊपर वर्षा करते हुए दन्तकान्ति से हृदय पर लटकते हुए हार को और भी मनन सा बनाकर इस प्रकार कहा ॥५२॥
मतङ्गशापादवलेपमूलादयाप्तवानस्मि मतङ्गजत्वम् । अवहि गन्धर्वपतेस्तनूज प्रियंवदं मां प्रियदर्शनस्य ॥५३॥
सब्जीविनी--- अवलेपमूलाद गर्व हेतुकात् 'अवलेरन्तु गर्व स्याल्लेपने द्वेषणे ऽपि इति विश्वः । मतङ्गस्य मुनेः शापान्मतङ्ग जत्वमवाप्तवानस्मि । मा प्रियदर्शनस्ल प्रियदर्शनास्थस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम्। 'त्रियां मूर्तिस्त. नुस्तनूः' इत्यमरः । 'तन्वादेवी' इत्यूडिति केचित् । प्रियंवदं प्रियंवदाख्यमवेहि जानीहि । प्रियं वदतीति प्रियंवदः "प्रियवशे वदः खच्' इति खच्प्रत्ययः ॥५३॥
अन्वय०-अवलेपमूलात्, मतङ्गशापात्, मतंगजत्वम्, अवाप्तवान् , अस्मि । मां, प्रियदर्शनस्य, गन्धर्वपतेः, तनुज, प्रियंवदम् , अवे.हे।
वाच्य---मतंगजत्वमवाप्तवता मया भूयते, अहं गन्धर्वपतेस्तनूजः प्रियंवदः "वयो" अवेयै। .
व्याख्या--अवलेपः-गर्वः, एव मुल = कार यस्य सः अवलेपमूलस्तस्मात् अवलेपमूलात् अहंकारादित्यर्थः । मतंगस्य-मतंगनामकः, शापः=आक्रोशः इति मतंगशापस्तस्मात् मतंगशापात् "शर आक्रोशे' । मतंगात् जातः मतंगजः, मतंगजस्य भावः मतंगजत्वं = हस्तित्वं = हस्तिथरीर ! अवाप्तवान् = प्राप्तवान् अस्मि% अहम् । मां = पुरःस्थितम् । प्रियं = मनोहर दर्शनम् = अवलोकनं यस्य, तस्य प्रियदर्शनस्य - एतन्नामकस्य। गन्धर्वाणां = देवगायकानां = विश्वावसुप्रभतीनामित्यर्थः पतिः = स्वामी, तस्य गन्धर्वपतेः = गन्धर्वराजस्येत्यर्थः। तनोः