________________
पञ्चमः सर्गः लम् , स्फुरत्प्रभामडलस्य मध्यम् इति स्फुरत्प्रभामण्डलमध्यम् , स्फुरत्प्रभामण्डलमध्ये वर्तते इति स्फुरत्प्रभामण्डलमध्यवर्ति । व्योम्नि चरति इति व्योमचरम् , तत् व्योमचरम् । ___ अभि०-यथैवाजबाणेन स विद्धस्तथैव तेन गजरूपं परित्यक्तम् , प्रकाशमानदीप्तिचक्रान्तराले वर्तमाना गगनविहारिणी चेतोहराऽऽकृतिश्च प्राप्ता । विस्मयवन्तस्तत्सैनिकास्तं ददृशुः।
हिन्दी-अज के बाण से विद्ध होते ही उसने हाथी का शरीर छोड़ दिया, और प्रकाशमान दीप्तिपुञ्ज में स्थित आकाशचारिणी मनोहर आकृति प्राप्त की। अज के सैनिक उसे आश्चर्ययुक्त होकर देखने लगे ॥५१॥
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोर स्थलतारहारः ।।५२।।
सञ्जीविनी-अथ प्रभावेनोपनतैः प्राप्तैः कल्पद्रुमोत्थैः कल्पवृक्षोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उर:स्थले ये तारहाराः स्थूला मुक्ताहारास्ते येन स तथोक्तः । वाचोऽस्य सन्तीति वाग्मी वक्ता । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः ।. पुरुष उवाच ।।२।।
अन्वयः-अथ, प्रभावोपनतैः, कल्पद्रुमोत्थैः पुष्पैः, कुमारम् , अवकीर्य, दशनप्रभाभिः, संवर्धितोर:स्थलतारहारः, 'सः पुरुषः' उवाच। .
वाच्य-कुमारः संवर्धितोरस्थलताहारेण वाग्मिना 'तेन पुरुषेण' ऊचे।
व्याख्या-अथ अनन्तरम् । प्रभावेन = सामर्थेन, उपनतानि = प्राप्तानि इति प्रभावोपनतानि, तैः प्रभावोपनतैः। कल्पद्रुमात् = कल्पवृक्षात्, उत्थानि उत्पन्नानि इति कल्पद्रुमोस्थानि, तैः कल्पद्रुमोत्थैः । पुष्पैः = कुसुमैः । कुमारम्= युवराजम् अजम् । अवकीर्य = अभिवृष्य । दशनानाम् = दन्तानाम् , प्रभाः= कान्तयः इति दशनप्रभाः, ताभिः दशनप्रभाभिः । ताराणाम् = मुकानां हाराः इति तारहायः, उरसः = हृदयस्य, स्थलम् = प्रदेशः इति उरःस्थलम्, उरःस्थले तारहाराः इति उरःस्थलतारहारः, संवर्धिताः = समेधिताः उरःस्थलतारहाराः येन. सः संवर्धितोरस्थलतारहारः। प्रशस्ता वाक् = वाणी अस्य अस्ति इति वाग्मी = वाक्चातुरीकुशलः, 'सः पुरुषः' उवाच = जगाद ।
समा०-प्रभावेनोपनतानि इति प्रभावोपनतानि, तैः प्रभावोपनतैः । कल्प