________________
७०
रघुवंशमहाकाव्ये
तं शय्योत्तरच्छदावमर्दकृशांगरागम् । प्रथितः प्रबोधो यस्य स तं प्रथितप्रबोधम् ! समानं क्यः येषां ते सवयसः । उदारा: वाचः येषान्ते उदारवाचः। सूतानाम् आत्मजाः इति सूतात्मजाः ।
अभि० ---कर्णकुण्डलदयेन पीडितरकन्धद्वयं खट्वास्तरणवस्त्रेण निर्मुष्टकस्तूरिकादिलेपनं प्रथितज्ञानमजं प्रगल्भा वन्दिपुत्राः प्रातःकाले मंगलगीतः प्रबोधितवन्तः।
हिन्दी-कुण्डलों के दबाव से जिसके कन्धों पर चिह्न पड़ गया और पलंग के बिछौने की रगड़ से जिसके शरीर पर लगा हुआ, कस्त्री चन्दन आदि का अंगराग भी मिट गया, और जो बुद्धिमान् है ऐसे अज को समान अवस्थावाले और मधुर बोलनेवाले बन्दिपुत्रों ने दिन निकलते ही मंगलगीत गाकर जगाया ॥६५॥
रात्रिर्गता मतिमतां वर मुन्न शय्यां ___ धात्रा द्विधव ननु धूर्जगतो विभक्ता । तामेकतस्तव बिभर्ति गुरुर्विनिद्र
स्तस्यो भवानपरधुर्यपदावलम्बी ॥६६॥ सञ्जीविनी-हे मतिमातां वर ! निर्धारणे षष्ठी । रात्रिर्गता शय्यां मुञ्च विनिद्रो भवेत्यर्थः । विनिद्रत्वे फलमाह-धात्रेति । धात्रा ब्रह्मणा जगतो धूारः 'धूः स्याद्यानमुखे भारे' इति यादवः । द्विधैव द्वयोरेवेत्यर्थः, एवकारस्तृतीयनिषेधार्थः। विभका ननु विभज्य स्थापिता खलु । तत्किमत आह तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन्विति तस्या धुरो भवान् धुरं वहतीति धुयों भारवाही तस्य पदं वहनस्थानम् अपरं युद्धर्यपदं तदवलम्बी ततो विनिद्रो भवेत्यर्थः । न ह्यभयवाह्यमेको वहतीति भावः ॥६६॥ __ अन्वयः-मतिमतां वर, रात्रिः गता, शय्यां मुञ्च, धात्रा, जगतः, धूः, द्विधा, एव विभक्ता, ननु । ताम् , एकतः, तव, गुरुः, विनिद्रः, “सन्' बिभर्ति तस्याः भवान् , अपरधुर्यवदावलम्बी ।
वाच्य-मतिमतां वर राज्या गतया 'भूयते' 'त्वया' शय्या मुच्यता, धाता जगतः धुरं द्विधैव विभक्तवान् , ननु साम् एकतः तव गुरुणा विनिद्रेण 'सता' भियते तस्य भवता अपरधुर्यग्दावलम्बिना भूयताम् ।
व्याख्या-मति:-बुद्धिः अस्ति येषान्ते मतिमन्तस्तेषां मतिमतां वरः श्रेष्ठः तत्संबद्धौ है मतिमता वर ! हे अज ! रात्रिः रजनी। गता व्यतीता। शय्यां