________________
पञ्चमः सर्गः
३३
मानि भासुर हेमानि भासुर हेम्नाम् राशिः भासुर हेमराशिः, तम् भासुर हेमशशिम् ।
3
अभि० - वज्रभिन्नः मंरुखण्ड इव स्थितः यात्रान्सुवर्णराशिः कुवेरादृष्टिरूपेण रघुणा लब्धस्तावन्तं सकलमेव स कौत्साय दातुमियेष |
हिन्दी - जिसपर चढ़ाई की जानेवाली थी उस कुबेर से वृष्टि के द्वारा प्राप्त, वह चमचमाता हुआ सोने का ढेर साग ही, महाराज ग्घु ने कौत्स को दे दिया जो कि वज्र से काटकर गिराया हुआ सुमेरु का टुकड़ा-सा दीखता था ॥ ३० ॥ जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्यसत्त्वी । नृपोऽर्थिकामादधिकप्रदश्च ||३१|| द्वावपि साकेतनिवासिनोऽयोध्यावासिनः, 'साकेतः स्यादयोध्यायां कोसला नन्दिनी च सा' इति यादवः । जनस्याभिनन्द्यसत्त्वौ स्तुत्यव्यवसायावभूताम् । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः । कौ द्वौ गरुप्रदेयादधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्त: 'प्रे दाज्ञः' इति कप्रत्ययः, नृपश्च ||३१||
अन्वयः - तौ द्वौ, अपि साकेतनिवासिनः, जनस्य, अभिनन्द्यसत्त्वौ, अभूतां 'कौ द्वौ ' गुरुप्रदेयाधिकनिःस्पृहः, अर्थी, अर्थिकामात् अधिकप्रदः, नृपः च । वाच्य० – ताभ्यां द्वाभ्यां अभिनन्द्यसत्त्वाभ्यां, अभावि गुरुप्रदेयाधिकनिःस्पृहेन, अर्थिना, अधिकप्र देन, नृपेण, च ।
व्याख्या - तौ = याचकवदान्यौ कौरसरघू । द्वौ = द्विसंख्यकौ । अपि । निवसति = निवासं करोति इति निवासी, साकेतस्थ अयोध्यायाः निवासी इति साकेत निवासी, तस्य साकेतनिवासिनः । जनस्य = लोकस्य | अभिनन्दितुं योग्यं अभिनन्द्यं = प्रशंसनीयं, सत्त्वं व्यवसायः, ययोस्तौ अभिनन्द्यस्त्वौ । अभूतां = आस्ताम् | 'कौ द्वौ' प्रदातुं योग्यं प्रदेयं = दानार्हम्, गुरवे = उपाध्याय प्रदेय गुरुप्रदेय, गुरुप्रदेयात् अधिकं = अतिरिक्तम् इति गुरुप्रदेबाधिक, गुरुप्रदेयाधि के निःस्पृहः = इच्छारहितः इति गुरुप्रदेयाधिकनिःस्पृहः । अर्थः = प्रयोजनम् अस्य अस्ति इति अर्धी = याचकः, कौत्सः 1 अर्थिनः == याचकस्य, कामः = अभिलाषः इति अधिकामः तस्मात् अर्थिकामात् । अधिकं = विशेषं प्रददाति = वितरति इति अधिकप्रदः । नून् = मनुष्यान् = क्षति नृपः - राजा रघुरित्यर्थः, च ।
गुरुप्रदेयांधिकनिःस्पृहोऽर्थी सञ्जीविनी - तावथिदातारौ
=
=
,