________________
३२
रघुवंशमहाकाव्ये समा०---प्रयाणल्य अभिमुखः प्रयाणाभिमुखः, तस्मै प्रयाणाभिमुखाय । कोशस्य गृहम् को शगृहम् , तस्मिन् कोशगृहे । विस्मयेन सह वर्तमानाः सावस्मयाः।
अभि०--प्रातःकाले यदैव रघुः प्रस्थान कर्तुमुद्यतस्तदैव विरिमतर्भाण्डा गारिकैः कोशभवनमध्ये गगनारसुवर्णवृष्टिर्जातेति कथितम् ।
हिन्दी-प्रातःकाल ज्योंही रघु प्रस्थान करने को उद्यत हुए, त्योंही आश्चर्य में भर हुए राजकोष के रक्षकों ने आकर सूचना दी कि कोशभवन में आकाश से सोने की वर्षा हुई है ।। २६ ॥
तं भूपतिर्भासुरहेमराशिं लब्धं कुचेरादमिबास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वनभित्रम् ॥३०॥
सजीविनी-भूपती रघुः अभियास्यपानादभिगमिष्यमाणात्कुबेराल्लब्धम् वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वतमिव स्थितम् ‘पादाः प्रत्यन्तपर्वताः इत्यमरः । 'शृङ्गम्' इति क्वचित्पाठः । तं भासुरं भास्वरम् 'भञ्जमासभिदो घुरच्' इति घुरन् । हेमराशि समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ । न तु चतुर्दशकोटिमात्रमित्येवकाराथः ||३०|| __अन्वयः-भूपतिः, अभियास्यमानात् , कुबेरात्, लब्धम् वभिन्नम् , सुमेरो:, पादम् , हव, 'स्थितम्', तम् भासुरहेमराशिम्, समस्तम्, एव, कौत्साय, दिदेश ।
वाच्य०---भूपतिना, लब्धः, वज्रभिन्नः, सुमेरोः, पादः, इव, 'स्थितः', सः, भासुरहमराशिः, समस्तः दिदिशे।
व्याख्या--भुवः भूमेः, पतिः-स्वामी, राजा रघुः। अभियास्यते असौ अभियास्यमानस्तस्मात् अभियास्पमानात् अभिगमिभ्यमाणात् । कुबेरात्धनाधिपात् । लब्धम्=प्राप्तम् । वज्रेण कुलिशेन । भिन्नः विदारितः इति वभिन्नः, तम् वज्रभिन्नम् । सुमेरो: हेमाद्रेः, पादम्-प्रत्यन्तपर्वतम् । इवयथा स्थितम्' । तम् पूर्वकथितम् । भासुराणि-प्रकाशमानानि, च तानि हेमानि= सुवर्णानि इति भासुरहेमानि, भासुर हेम्नाम् राशिः समूह हति भासुर हेमराशिः, तं भासुर हेमराशिम् । समस्तम्-सुफलम् , एव। कौरमाय-वरतन्तुशिष्याय । दिदेश-दो।
समा०-भुवः पतिः भूपतिः । अभियास्यति इति अभियास्यमानः, तस्मात् अभियास्यमानात् । वज्रेण भिन्नः वज्रभिन्नः, तम् वज्रभिन्नम् । भासुराणि च तानि