________________
पञ्चमः सर्गः तया सामनासम्भावनया। एव। कैलासस्य प्रसिद्धपर्वतविशेषस्य, नाथ:= स्वामी, कैलासनाथ: कुवेरः, तम् कैलासनाथम् । तरसाबलेन । जिगीषुः -जेतुमिच्छुः । 'सन्' । कल्पितम् रचितम्, च तत् शस्त्रम् आयुधम् , इति कल्पितशस्त्रम् , कल्तिशस्त्रम् गर्भे मध्ये, यस्य सः कल्पितशस्त्रगर्भः, तम् कल्पितशस्त्रगर्भम् । रथम् स्यन्दनम् । अधिशिश्य-शयितवान् ।
समा०—समन्तात् भवः सामन्तः, सामन्तस्य सम्भावना सामन्तसम्भावना, तया सामन्तसम्भावनया । कैलासस्य नाथः कैलासनाथः, तम् कैलासनाथम् । जेतुम् इच्छति जिगीषति, जिगीषति इति जिगीषुः। कल्पितम् च तत् शस्त्रम् कल्पितशस्त्रम् , कल्पितशस्त्रं गर्भ यस्य सः कल्पितशस्त्रगर्भः, तम् कल्पितशस्त्रगर्भम् ।
अभि०-ततो धीरो रघुः स्वरलेन सामान्यराजवत्कुबेरं जेतुमिच्छया निशा. मुखे रथे शस्त्राणि संस्थाप्य स्वयमपि तत्रैव सुप्तः ।
हिन्दी-तब धीरे रघु बलपूर्वक कुबेर को साधारण राजा की भाँति जीतने की इच्छा से सायङ्काल में ही रथ में शस्त्र रखकर स्वयं भी उसमें सो गये ॥२८॥
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः।। हिरण्मयों कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नमस्तः ॥ २९ ॥
सञ्जीविनी-प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः, पञ्चम्यास्तसिल्प्रयः। पतितां हिरण्मयी सुवर्णमयीम् 'दाण्डिनायन०' इत्यादिना निपातनात्साधुः । वृष्टिं शशंसुः कथयामासुः ॥ २६ ।।।
अन्वयः-प्रातः, प्रयाणाभिमुखाय, तस्मै, कोशगृहे, नियुक्ताः 'जनाः' सविस्मयाः, 'सन्तः', कोशगृहस्य, मध्ये, नभस्तः, पतिताम् , हिरण्मयीम् , वृष्टिम् शशंसुः।
वाच्य०-नियुक्तैः, सविस्मयैः 'सद्भिः' पतिता, हिरण्मयी, वृष्टिः, शशंसे ।
व्याख्या-प्रातः = प्रभातसमये । प्रयाणस्य = प्रस्थानस्य, अभिमुखः = तत्परः इति प्रयाणाभिमुखः, तस्मै प्रयाणाभिमुखाय, तस्मै = रघवे, कोशस्य = निधेः, गृहम् = भवनम् इति कोशगृहम्, तस्मिन् कोशगृहे । नियुक्ताः = अधिकृताः, 'जनाः' विस्मयेन = आश्चर्येण सह वर्तमानाः सविस्मयाः, 'सन्तः । कोशगृहस्य
= निधिभवनस्य । मध्ये = अन्तः । नभस्तः = आकाशात् । पतिताम् = च्युताम् । हिरण्मयीम् = सुवर्णमयीम् । वृष्टिम् = वर्षणम् । शशंसुः = कथयामासुः ।