________________
रघुवंशमहाकाव्ये प्रापयिता इति वलाहकः । पृषोदरादित्वात्साधुः मेघ इत्यर्थः । तस्य बलाहकस्य । इव-यथा। तस्य-रघोः। रथः स्यन्दनः इति तद्रथः, तस्य तद्रथस्य । गतिःसञ्चारः । नहि नैव, विजघ्ने प्रतिद्धा।
समा०-मन्त्रेण उक्षणम् मन्त्रोक्षणम् , वसिष्टस्य मन्त्रोक्षणम् वसिष्ठमन्त्रोक्षणम् , वसिष्ठमन्त्रोक्षणात् जातः वसिष्ठमन्त्रोक्षणजः, तस्मात् वसिष्ठमन्त्रोक्ष. णजात् । उदकानि सन्ति अस्मिन् इति उदन्वान् , आ समन्तात् काशते इति आकाशः, धरन्ति इति धराः, मह्याः धराः महीधराः उदन्वांश्च आकाशश्च महीधरश्चेति, उदन्वदाकाशमहीधराः, तेषु उदन्वदाकाशमहीधरेषु । मरुतः सखा मरुत्सखः, तस्थ मरुत्सखस्य । वहति इति वाहकः, वारीणाम् वाहकः बलाहकः, तत्य बलाहकस्य । तस्य रथः तद्रथः, तस्य तद्रथस्य ।
अभि०-~-यथा पवनसहायवतो मेघस्य गतिः सर्वत्र निर्बाधा, तथैव वसिष्ठमन्त्राणां प्रोक्षणसामर्थ्याद्रघोः रथस्यापि सागरे, नभसि, पर्वते च प्रतिबन्धरहिता गतिरासीत् ।
हिन्दी-जैसे वायु की सहायता से मेघ की गति सर्वत्र हो जाती है, उसी प्रकार वसिष्ठजी के मन्त्रों से अभिमन्त्रित जल के प्रोक्षण की सामर्थ्य से रघु के रथ की गति भी समुद्र, आकाश तथा पर्वत कहीं पर भी नहीं रुकती थी । २७ ।।
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् । सामन्तसंभावनयव धीरः कैलासनाथं तरसा जिगीषुः ॥ २८ ॥
सञ्जीविनी-अथ प्रदोषे रजनीमुखे तत्काले यानाधिरोहणविधानात् प्रयतो धीरो रघुः समन्ताद्भवः सामन्तः राजमात्रमिति संभावनयैव कलासनाथं कुबेरं तरसा बलेन जिगीषुजें तुमिच्छुः सन् कल्पितं सज्जितं शस्त्रं गर्भ यस्य तं रथमधिशिश्ये रथे शयितवानित्यर्थः । 'अधिशीस्थासां कर्म' इति कर्मत्वम् ।। २८ ।।
अन्वयः-अथ, प्रदोषे, प्रयतः, धीरः, रघुः, सामन्तसम्भावनया, एव कैलासनाथम् , तरसा, जिगीषः, 'सन्' कल्पितशस्त्रगर्भम् , रथम् अधिशिश्ये ।
वाच्य-प्रयतेन, रघुणा, जिगीषणा 'सता' रथः, अधिशिश्ये ।
व्याख्या-अथ अनन्तरम् । प्रदोषे रजनीमुखे, प्रयतः-शुद्धः । धीरः= धैर्यशाली। रघु: दिलीपसूनुः । समन्तात् परितो भवः सामन्तः-राजमात्रम् न तु लोकपाल इति भावः, सामन्तस्य सम्भावना कल्पना, इति सामन्तसम्भावना,