________________
पञ्चमः सर्गः
२६
अपि । आत्त: गृहीतः, सारः अंशः यस्याः सा आत्तसारा, ताम् आत्तसाराम् । गाम्=पृथिवीम् । अवेक्ष्य आलोच्य । कुबेरात्=धनाधिपात् । अर्थम् धनम् । निष्क्रष्टुम् आहर्तुम् । चकमे इयेष ।
समा०-अग्रे जन्म यस्य सः अग्रजन्मा । आत्तः सारः यस्याः सा आत्तसारा, ताम् आत्तसाराम् । __ अभि०-ब्राह्मणेन कौत्सेनापि रघोः प्रतिज्ञा न मिथ्या भविष्यतीति तदुक्त स्वीकृतम् । रघुणाऽपि मया महीतलादर्थ यज्ञात्पूर्वमेव गृहीतमिति विचार्य कुबेरादनमानयामीति वाञ्छा कृता ।
हिन्दी-ब्राह्मण कौरस ने प्रसन्न होकर रघु के अव्यर्थ निश्चय को स्वीकार किया। इधर खुने भी पृथ्वी को सारहीन जानकर कुबेर से धन लाने की इच्छा की ।। २६ ।।
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ २७ ॥
सञ्जीविनी-वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्व्य प्रोक्षणं तज्जात्प्रभावासामर्थ्यादेतोः उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा मरुत्सखस्य मरुतः सखेति तत्पुरुषः, बहुव्रीही समासान्ताभावात् । ततो वायुसहायस्येति लभ्यते। वारिणां वाहको बलाहकः पृषोदरादित्वात्साधुः, तस्येव मेफ्स्येव तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ॥ २७ ॥
अन्वयः-वसिष्ठमन्त्रोक्षणजात्, प्रभावात्, उदन्वदाकाशमहीधरेष, मरुत्सखस्य, बलाहकस्य, इव, तद्रथस्य, गतिः न, हि विजघ्ने ।
वाच्य०-गत्या न विजने।
व्याख्या-मन्त्रेण-मन्त्रवचनेन, उक्षणम्-प्रोक्षणम्-मार्जनमित्यर्थः इति मन्त्रोक्षणम् , वसिष्ठस्य तन्नामकमहर्षेः मन्त्रोक्षणम् इति वसिष्ठमन्त्रोक्षणम् , वसिष्ठमन्त्रोक्षणात् जातः उत्पन्नः इति वसिष्ठमन्त्रोक्षणजः, तस्मात् वसिष्ठमन्त्रोक्षण जात् । प्रभावात् सामर्थ्यात् | उदकानिजलानि सन्ति अस्मिन् इति उदन्वान् समुद्रश्च, आकाशः गगनञ्च, महीधरः पर्वतश्चेति, उदन्वदाकाशमहीधराः, तेषु उदन्वदाकाशमहीधरेषु । मरुतः वायोः, सखा=मित्रम् मरुत्सखः पवनसहाय इत्यर्थः, तस्य मरुत्सखस्य । वारीणाम् जलानाम् वाहकः