________________
रघुवंशमहाकाव्ये विश्वस्य, एकः = केदलश्चासौ नाथ: स्वामी इति मगदेकनाथः । वेदान् = श्रुतीः विदन्ति जानन्ति इति वेदविदः तेषाम् वेदविदाम् वरेण श्रेष्ठेन । द्विजेन= ब्राह्मणेन । इत्यम्-एवम् । आवेदितः=निवेदितः 'सन्' एनम् कौत्सम् । भूयः= पुनः । जगाद-उवाच !
समा०-द्विजानाम् राजा द्विजराजः, द्विजराजस्य कान्तिः इव कान्तिः यस्य सः द्विजराजकान्तिः। इन्द्रियाणां वृत्तिः इन्द्रियवृत्तिः, एनसः निवृत्ता इति एनोनिवृत्ता, एनोनिवृत्ता इन्द्रियवृत्तिः यस्य सः रनोनिवृत्तेन्द्रियवृत्तिः। एकश्चासौ नाथः इति एकनाथः, जगतः एकनाथः इति जगदेकनाथः । वेदान् विदन्ति इति वेदविदः, तेषाम् वेदविदाम् ।।
अभि०-चन्द्रतुल्यमनोहरो निष्पापो महीपो रघुर्वेदशानां वरेण्येन कौसेनैवं विज्ञापितः पुनरुवाद ।
हिन्दी-चन्द्रमा के समान कान्तिवाले तथा किसी भी इन्द्रिय से पाप न न करनेवाले, जगत् के एक मात्र स्वामी रघु वेद को जाननेवालों में श्रेष्ठ कौत्स के इस प्रकार कहने पर फिर बोले ॥२३॥
गुर्वर्थमर्थी श्रुतपारहश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥२४॥ संजीविनी--श्रुतस्य पारं दृष्टवान् श्रुतपारदृश्वा 'दृशेः क्वनिप्' इति क्वनिप् । गुर्वर्थे गुरुदक्षिणार्थ यथा तथार्थी याचकः । विशेषणद्वयेनाप्यस्याप्रत्याख्येयत्वमाह । रघोः सकाशात्काम मनोर थमनवाप्याप्राप्य वदान्यान्तरं दात्रन्तरं गतः । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्यमरः। इत्येवंरूपोऽयं परीवादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्मास्तु । रघोरिति स्वनामग्रहणं संभावितत्वद्योतनार्थम् । तथा च 'संभावितस्य चाकीर्तिरणादातरिच्यते' इति भावः ॥२४॥ ___ अन्वयः-श्रुतपारदृश्वा, गुर्वर्थम , अर्थी, रघोः, सकाशात् , कामम् , अनवाप्य, वदान्यान्तरम् , गतः, इति, अयम् , मे परीवादनवावतारः, मा, भूत् ।
वाच्य०-श्रुतपारदृश्वना, अर्थिना, वदान्यान्तरम् गतम् इति, अनेन, परीवादनवावतारेण, मा भावि ।