________________
२५
पञ्चमः सर्गः महान् इत्यर्थः, अल्पेतरस्य भावः अल्पेतरत्वम्, तत्मात् अल्पेतनत्वात्, अत्याविक्यात् । सम्प्रति इदानीम् । उपरोद्धम् आग्रहं कर्तुम् । ननहि, अभ्युत्सहे उत्साहं करोमि ।
समा०--सपर्यायाः विधिः सपर्याविधिः, सपर्याविधेः भाजनम् सपर्याविधिभाजनम्, तेन सपर्याविधिभाजनेन । प्रभुः इति शब्दः प्रभुशब्दः, प्रभुशब्दः एव शेषः यस्य सः शभुशब्दशेषः, तम् प्रभुशब्दशेषम् । श्रुतस्य निष्क्रयः श्रुतनिष्कयः, तस्य श्रुतनिष्क्रयस्य । अल्पात् इतरः अल्पेतरः, अल्पेतरस्य भावः अल्पेतरत्वम्, तस्मात् अल्पेतरस्वात् । __ अभि०-किन्तु मया मृद्रूपार्घ्यपात्रेणैव भवतो धनत्यं प्रभुत्वं ज्ञातं तेन महति देये शास्त्रनिष्क्रयद्रव्ये, भवतोऽनुरोधं कर्तुमिदानी नोत्साहं करोमि ।
हिन्दी-मैंने मिट्टी के अर्घ्यपात्र से ही, आपके पास प्रभु-शब्द ही शेष है अर्थात् धन नहीं, यह जान लिया है, अतः ऐसी परिस्थिति में मैं आपसे महती गुरुदक्षिणा के सम्बन्ध में अनुरोध करने का उत्साह नहीं कर रहा हूँ ॥२२॥
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥२३॥ सब्जीविनी-द्विजराजकान्तिश्चन्द्रकान्तिः 'द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः' इत्यमरः। 'तस्मात्सोमो राजा नो ब्राह्मणानाम्' इति श्रुतेः। द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति । एनसः पापानिवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकमाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेनेत्यमावेदितो निवेदितः सन् एनं कौत्सं भूयः पुनर्जगाद ॥२३॥
अन्वयः-द्विजराजकान्तिः, एनोनिवृत्तेन्द्रियवृत्तिः जगदेकनाथः, वेदविदाम् , वरेण, द्विजेन, इस्थम्, आवेदितः, 'सन्' एनम् , भूयः, जगाद।
वाच्य-द्विजराजकान्तिना, एनोनिवृत्तेन्द्रियवृत्तिना, जगदेकनाथेन, आवेदितेन, 'सता', एषः, भूयः, जगदे।
व्याख्या-द्विजानाम् ब्राह्मणानाम्, राजा-नृपः, इति द्विजराजः चन्द्रः, इत्यर्थः, द्विजराजस्य कान्तिः-शोभा, इव शोभा यस्य सः द्विजराजकान्तिः । इन्द्रियाणाम् = हृषीकाणाम् , वृत्तिः व्यापारः इति इन्द्रियवृत्तिः, एनसः = पापात् निवृत्ता-दूरीभूता, इन्द्रियवृत्तिः यस्य सः एनोनिवृत्तेन्द्रियवृत्तिः। जगतः=