________________
पञ्चमः सर्गः
२७
"
व्याख्या – श्रुतस्य = शास्त्रस्य, पारम् = अन्तः इति श्रुतपारम् श्रुतपारम् दृष्टवान् = अवलोकितवान् इति श्रुतपारदृश्वा शास्त्रममशः इत्यर्थः । गुरवे = आचार्याय इदम् इति गुर्वर्थम्, गुरु निमित्तमित्यर्थः । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् इति समासः । अर्थः = प्रयोजनम् अस्य अस्तीति अर्थी याचक इत्यर्थः । रघोः - दिलीपसूनोः । सकाशात् = समीपात् । कामम् = अभिलाषम् | अनवाप्य=अप्राप्य । अन्यः = अपरः वदान्यः = दाता इति वदान्यान्तरम् तद् वदान्यान्तरम् । गतः =यातः । इति = एवम् । अयम् = एषः मे = मम रघोः । नवः = नूतनश्चासौं अवतारः = उत्पत्तिः इति नवावतारः, परीवादस्य = निन्दायाः नवांवतारः इति परिवादनवावतारः मा भूत् =नभवेत् ।
"
समा० - श्रुतस्य पारम् श्रुतपारम् श्रुतपारम् दृष्टवान् इति श्रुतपारदृश्वा । गुरवे इदम् इति गुर्वर्थम् । अर्थः अस्य अस्ति इति अर्थी । अन्यः वदान्यो वदान्यान्तरम्, तत् वदाव्यान्तरम् । नवश्चासौ अवतारः नवावतारः, परीवादस्य नवावतारः परीवादनवावतारः ।
अभि० – अखिलशास्त्रपारंगतो गुरुमुद्दिश्य याचको रघोः समीपाद्धताशो भूत्वा दात्रन्तरसमीपे गत इति जगति मे निन्दायाः प्रथमावतारो न स्यात् ।
हिन्दी - सम्पूर्ण शास्त्रों के पारगामी, गुरु के लिए याचना करनेवाले कौरस की इच्छा रघु के समीप जाने पर पूर्ण न हुई, अतः वह दूसरे दानी के पास गया, यह मेरी प्रथम निन्दा न हो ॥ २४ ॥
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे | द्वित्राण्यहान्यर्हसि सोदुमर्हन्यावद्यते साधयितुं त्वदर्थम् ॥ २५ ॥
सब्जीविनी - - स स्वं महिते पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन्द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि । ' संख्ययाव्ययासन्नादूराधिकसंख्याः संख्ये ये' इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये ढजबहुगणात् ' इति डच्प्रत्ययः समासान्तः । सोढुमर्हसि । हे अर्हन्मान्य ! स्वदर्थे तव प्रयोजनं साधयितुं यावद्यते यतिष्ये । 'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् ||२५||
अन्वयः - सः स्वम्, महिते, प्रशस्ते, मदीये, अग्न्यगारे, चतुर्थः, अग्निः इव, वसन् द्वित्राणि अहानि, सोढुम् अर्हसि, अर्हन्, यावत्, स्वदर्थम्, साधयितुम्, यते । वाच्य० – तेन खया, चतुर्थेन, अग्निना इव, वसता, अर्हते, मया, यर५ ते