________________
पञ्चमः सर्गः
१७ हिन्दी-हे परमसौभाग्यशालिन् ! पूज्यां के प्रति श्रद्धा से आपने अपने पूर्वजों का भी अतिक्रमण कर दिया है। परन्तु क्या किया जाय, मैं ही समय बिताकर आपके पास कुछ माँगने की इच्छा से विलम्ब से आया हूँ, इसका मुझे अत्यन्त खेद है ।।१।।
शरीरमात्रेण नरेन्द्र तिष्टनाभासि तीर्थप्रतिपादितर्द्धिः।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नोवार इमावशिष्टः ।।१५।। सञ्जीविनी-हे नरेन्द्र ! तीर्थे सत्पात्रे प्रतिपादिता दत्तद्धियेन स तथोक्तः 'योनौ जलावतारे च भन्न्याधष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थ स्यादृर्शनेम्वपि' इति हलायुधः। शरीरमात्रेण तिष्ठन् आरण्यका अरण्ये भवा मनुष्या मुनिप्रमुखाः 'अरण्यान्मनुष्ये' इति वुञ्प्रत्ययः । तेरुपात्ता फलमेव प्रसूतिर्यस्य सः स्तम्बेन काण्डेनावशिष्टः । प्रकृत्यादिस्वात्तृतीया। नीवार इव आभासि शोभसे ।
अन्वयः-नरेन्द्र ! तीर्थप्रतिपादितदिः, स्वम्' शरीरमात्रेण, तिष्टन् , आरण्यकोपात्तफलप्रसतिः, स्तम्बेन, अवशिष्टः नीवारः इव आभासि ।
वाच्य०-तीर्थप्रतिपादितर्दिना, 'स्वया' तिष्ठता, आरण्यकोपात्तिफलप्रसतिना अवशिष्टेन, नीवारेण, इव आभायते ।। ___व्याख्या-नराणाम् मनुष्याणाम् । इन्द्रः स्वामी इति नरेन्द्रः, सबुद्धौ हे नरेन्द्र ! तीर्थेषु = सत्पात्रेषु, प्रतिपादिता = दत्ता, ऋद्धिः = संपत् , येन सः तीर्थप्रतिपादितदिः, 'त्वम् । शरीरम् वपुः एव शरीरमात्रम् , तेन शरीरमात्रेण । तिष्ठन् = वर्तमानः। अरण्ये = वने भवाः आरण्यकाः वन्यमनुष्या इत्यर्थः, आरण्यकः उपात्ता = गृहीता इति आरण्यकोपात्ता, फलम् = वृक्षप्रसवः एव प्रसूतिः = प्रसवः यस्य सः आरण्यकोपात्तफलप्रसूतिः। स्तम्बेन = काण्डेन । अवशिष्टः = शेषः । नीवारः = धान्यविशेषः इव = यथा। आभासि-शोभसे।
समा०-नराणाम् इन्द्रः नरेन्द्रः, तत्सम्बुद्धौ हे नरेन्द्र ! तीर्थेषु प्रदिपादिता इति तीर्थप्रतिपादिता, तीर्थप्रतिपादिता ऋद्धिः येन सः तीर्थप्रतिपादितदिः । शरीरम् एव शरीरमात्रम् , तेन शरीरमात्रेण | अरण्ये भवाः, आरण्यकाः, आरण्यकैः उपात्ता आरण्यको पात्ता, फलम् एव प्रसूतिः फलप्रसूतिः । आरण्यकोपात्ता फलप्रसूतिः यस्य सः आरण्यकोपात्तफलप्रसूतिः ।