________________
रघुवंशमहाकाव्ये प्रकाशमान रहते अन्धकार-समूह लोगों की दृष्टि को ढाँकने में समर्थ हो सकता है ?|| १३ ॥
'तवाहतः'--.इत्यादिनोक्तं यत्तन्न चित्रमित्याहभक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयातिशेषे । व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥१४॥
सञ्जीविनी-प्रतीक्ष्येषु पूज्येषु 'पूज्यः प्रतीक्ष्यः' इत्यमरः । भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । हे महाभाग सार्वभौम ! तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे । किन्तु सर्वत्र वात चेत्तर्हि कथं खेदखिन्न इव दृश्यसेऽत आइ-व्यतीतेति । अहं व्यतीतकालोऽतिक्रान्तकालः सन्नथिभावात्त्वामभ्युपेत इति मे मम विषादः ॥१४॥ ___ अन्वयः-प्रतीक्ष्येषु, भक्तिः, ते, कुलोचिता, महाभाग, तया पूर्वान् आंतशेष, तु, अहम् व्यतीतकालः 'सन्' अर्थिभावात् त्वाम् , अभ्युपेतः, इति, मे विषादः, 'अस्ति ।
वाच्य०-भक्त्या , कुलोचितया, 'भूयते' पूर्वे, त्वया, अतिशय्यन्ते, मया, व्यतीतकालेन, ‘सता', अभ्युपेतेन 'भूयते' इति विषादेन 'भूयते' ।
व्याख्या-प्रतीक्ष्येषु = पूज्येषु । भक्तिः = अनुरागः । ते-तव रघोः । कुलस्य = वंशस्य , उचिता = योग्या, इति कुलोचिता । हे महाभाग = सार्वभौम । तया = भक्त्या । पूर्वान् = पूर्वाजान् । अतिशेषे = अतिक्रम्य वर्तसे । तु = किन्तु । अहम् कौत्सः । व्यतीतः = अतिक्रान्तः, कालः = समयः यस्य सः व्यतीतकालः, 'सन्' । अर्थः = प्रयोजनम् अस्य अस्ति इति अर्थी, अर्थिनः भावः = इच्छा इति अर्थिभावः, तस्मात् अर्थिभावात् , याचकरूपेणेत्यर्थः । त्वाम् = रघुम् । अभ्युपेतः = प्राप्तः। इति = हेतोः। मे = मम कौत्सस्य । विषादः खेदः 'अस्ति। ___समा०—कुलस्य उचिता कुलोचिता । व्यतीतः कालः यस्य सः व्यतीतकालः । अर्थः अस्य अस्ति इति अर्थी, अर्थिनः भावः अर्थिभावः, तस्मात् अर्थिभावात् । ___ अभि०--हे भाग्यशालिन्, पूज्येषु श्रद्धावतां स्वकुलपूर्वजानां मध्ये त्वमेव स्वश्रद्धया सर्वश्रेषः । स्वकार्यपूरणार्थमहमेव सर्वस्वं दत्तवतस्तव सन्निधौ विलम्बन समागत इति तु मे शोकः ।