________________
पञ्चमः सर्गः
१५
इति यादवः । न चैतदाश्चर्यमित्याह - नाथ इति । स्वयि नाथ ईश्वरे खति प्रजानामशुभं दुःखं कुतः । तथाहि अर्थान्तरम् न्यस्यति — सूर्य इत्यादिना । सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः । ' तमिस्रं तिमिरे रोगे तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च' इति विश्वः । ' तमिस्रम्' इति पाठे तमिस्रं तिमिरम् 'तमिस्रं तिमिरं तमः' इत्यमरः । लोकस्य जनस्य 'लोकस्तु भुवने जने' इत्यमरः । दृष्टेरावरणाय कथं कल्पेत दृष्टिमात्ररितुं नालमित्यर्थः । कृपेरलमर्थस्वात्तद्योगे 'नमःस्वस्तिस्वाहास्वधालंवषङ्योगाच्च' इत्यनेन चतुर्थी । 'अलमिति पर्याप्त्यर्थग्रहणम्' इति भगवान्भ व्यकारः । कल्पेत संपद्येतेत्यर्थः । क्लृपि संपद्यमाने चतुर्थीति वक्तव्यात् ॥१३॥
अन्वयः -- राजन्, 'स्वम्' सर्वत्र, नः वार्तम्, अवेहि, त्वयि, नाथे, 'सति' प्रजानाम्, अशुभम् कुतः, सूर्ये, तपति, 'सति', तमिस्रा, लोकस्य, दृष्टेः, आवरणाय, कथम्, कल्पेत ?
"
"
वाच्य० – ' त्वया' वार्तम् अवेद्यताम्, अशुभेन, 'भूयते' तमिस्रया कल्प्येत ? ज्याख्या– हे राजन् = नृप । हे 'त्वम्' सर्वत्र = सर्वस्मिन्प्रष्टव्यविषये । F:= अस्माकम् । वार्तम् = कुशलम् अवेहि = जानीहि । स्वयि = रघौ, नाथे = स्वामिनि, 'सति' । प्रजानाम् = जनानाम् । न शुभम् = कल्याणम् इति अशुभम् । कुतः = कथं स्यात् । ‘यतः' सूर्ये = सवितरि तपति = तापं जनयति इति तपन्, तस्मिन् तपति = प्रकाशमाने 'सति' । तमिस्रा = कृष्णपक्षीया रात्रिः ' तमिस्रा तामसी रात्रिः' इत्यमरः | लोकस्य = जनस्य । दृष्टेः = नेत्रव्यापारस्य, आवरणाय = अवरोधाय | कथम् = केन प्रकारेण | कल्पेत - सम्पद्येत |
समा० - प्रकर्षेण जायन्ते इति प्रजाः, तासाम् प्रजानाम् । न शुभम् अशुभम् । सरति अकाशे इति सूर्य:, तस्मिन् सूर्ये । आ समन्ताद् वरणं, तस्मै
आवरणाय ।
अभि० - हे राजस्वमस्माकं सर्वथा कुशलं विद्धि त्वादृशे प्रजापालके कुतो नु लोकस्याकुशलं यतो दिननाथे प्रकाशमानेऽन्धकारपरम्परायाश्चर्चाऽपि किं श्रूयते ?
हिन्दी - हे राजन् ! आप हमारा सब प्रकार से कुशल समझें | आप सरीखे राजा के होने पर प्रजा का अकुशल कैसे हो सकता है ? भला, कहीं सूर्य के