________________
रघुवशमहाकाव्ये अन्वयः-अर्घ्यपात्रानुमितव्ययस्य, रघोः, इति,उदाराम,अपि,गाम् ,निशम्य, वरतन्तुशिष्यः, स्वार्थोपपत्तिम् , प्रति, दुर्बलाशः, 'सन्' तम् , इति, अवोचत् ।
वाच्य०-वरतन्तुशिष्येण, दुर्बलाशेन, सता, सः, इति औच्यत।
व्याख्या --अर्थि द्रव्यम् अय॑म् अर्ध्याय दीयमानं जलादिकम् , अय॑स्य पात्रम्=भाजनम् इति अर्धपात्रम् , अर्घ्यपात्रेण अनुमितः निश्चितः इति अर्धपात्रानुमितः, अर्घायात्रानुमितः व्ययः धनापगमः यस्य सः अर्घ्यपात्रानुमितव्ययः, तस्य अर्घ्यपात्रानुमितव्ययस्य । मृन्मयार्यपात्रदर्शनेन निर्णीतसकल. कोषदानस्य । रघो: दिलीपसूनोः। इति एवंभूताम् , उदाराम्=औदार्यगुणयुक्ताम् अपि। गाम्-वाणीम् । निशम्य श्रला। वरतन्तोः तन्नामकमहर्षेः शिष्यः: अन्तेवासी इति वरतन्तुशिष्यः। स्वस्य-निजस्य, अर्थः-प्रयोजनम् स्वार्थः, स्वार्थस्य उपपत्तिः--सिद्धिः इति स्वार्थोपपत्तिः, ताम् स्वार्थोपपत्तिम् । प्रति--लक्ष्यीकृत्य । दुर्बलाक्षीणा, आशा-मनोरथः यस्य सः दुर्वलाश: 'सन्' ! तम्-रघुम् । इति वक्ष्याणाप्रकारेण । अनोचत्-उवाच ।
समार---अर्घार्थम् अर्व्यम्, अय॑स्य पात्रम् अर्घ्यपात्रम् ; अर्यपात्रेण अनुमितः अर्ध्वपात्रानुभितः, अर्घ्यपात्रानुमितः व्ययः यस्य सःअर्घ्यपात्रानुमितव्ययः, तस्य अर्धपात्रानुमितव्ययस्य ! वरतन्तोः शिष्यः वरतन्तुशिष्यः । स्वस्य अर्थः स्वार्थः स्वार्थस्य उपपत्तिः स्वार्थोपपत्तिः ! तां स्वार्थीपपत्तिम् । दुर्बला आशा यस्य सः दुर्बलाशः । ___ अभि-वरतन्तुशिष्येण कौत्सेन मृन्मयमयंपात्रमवलोक्य नितिं यद्धुणा विश्वजिद्यने सकलोऽपि राजकोषोऽर्थिसान्कृत इति स्वकार्यसिद्धि प्रति शिथिलाशो भूत्वा स रघुमुवाच ।
हिन्दी-~-वरतन्तु ऋषि के शिष्य कौत्स ने मिट्टी का अर्य-पात्र देखकर अनुमान लगा लिया कि राजा ने सम्पूर्ण कोष विश्वजित् यश में दान कर दिया है; इस कारण उसकी अपनी कार्यसिद्धि के विषय में आशा शिथिल पड़ गयी, और उसने रघु से इस प्रकार कहा ॥१२॥
सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये त्तपत्यावरणाय दृष्टः कल्पेत लोकस्य कथं तमित्रा ॥१३॥
सब्जीविनी--हे राजन् ! त्वं सर्वत्र नोऽस्माकं वात स्वास्थ्यमवेहि जानीहि 'वात फल्गुन्यरोगे च' हत्यमरः । 'पार्ने पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्'